भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.44

3.44.1

तया परुषम् उक्तस् तु कुपितो राघवानुजः
स विकाङ्क्षन् भृशं रामं प्रतस्थे नचिराद् इव ॥

3.44.2

तदासाद्य दशग्रीवः क्षिप्रम् अन्तरम् आस्थितः
अभिचक्राम वैदेहीं परिव्राजकरूपधृक् ॥

3.44.3

श्लक्ष्णकाषायसंवीतः शिखी छत्त्री उपानही
वामे चांसे ऽवसज्याथ शुभे यष्टिकमण्डलू
परिव्राजकरूपेण वैदेहीं समुपागमत् ॥

3.44.4

ताम् आससादातिबलो भ्रातृभ्यां रहितां वने
रहितां सूर्यचन्द्राभ्यां संध्याम् इव महत्तमः ॥

3.44.5

ताम् अपश्यत् ततो बालां राजपुत्रीं यशस्विनीम्
रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः ॥

3.44.6

तम् उग्रं पापकर्माणं जनस्थानरुहा द्रुमाः
समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः ॥

3.44.7

शीघ्रस्रोताश् च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम्
स्तिमितं गन्तुम् आरेभे भयाद् गोदावरी नदी ॥

3.44.8

रामस्य त्व् अन्तरं प्रेप्सुर् दशग्रीवस् तदन्तरे
उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः ॥

3.44.9

अभव्यो भव्यरूपेण भर्तारम् अनुशोचतीम्
अभ्यवर्तत वैदेहीं चित्राम् इव शनैश्चरः ॥

3.44.10

स पापो भव्यरूपेण तृणैः कूप इवावृतः
अतिष्ठत् प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् ॥

3.44.11

शुभां रुचिरदन्तौष्ठीं पूर्णचन्द्रनिभाननाम्
आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् ॥

3.44.12

स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम्
अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः ॥

3.44.13

स मन्मथशराविष्टो ब्रह्मघोषम् उदीरयन्
अब्रवीत् प्रश्रितं वाक्यं रहिते राक्षसाधिपः ॥

3.44.14

ताम् उत्तमां त्रिलोकानां पद्महीनाम् इव श्रियम्
विभ्राजमानां वपुषा रावणः प्रशशंस ह ॥

3.44.15

का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि
कमलानां शुभां मालां पद्मिनीव च बिभ्रती ॥

3.44.16

ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीर् अप्सरा वा शुभानने
भूतिर् वा त्वं वरारोहे रतिर् वा स्वैरचारिणी ॥

3.44.17

समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास् तव
विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ॥

3.44.18

विशालं जघनं पीनम् ऊरू करिकरोपमौ
एताव् उपचितौ वृत्तौ सहितौ संप्रगल्भितौ ॥

3.44.19

पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ
मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ ॥

3.44.20

चारुस्मिते चारुदति चारुनेत्रे विलासिनि
मनो हरसि मे रामे नदीकूलम् इवाम्भसा ॥

3.44.21

करान्तमितमध्यासि सुकेशी संहतस्तनी
नैव देवी न गन्धर्वी न यक्षी न च किंनरी ॥

3.44.22

नैवंरूपा मया नारी दृष्टपूर्वा महीतले
इह वासश् च कान्तारे चित्तम् उन्मादयन्ति मे ॥

3.44.23

सा प्रतिक्राम भद्रं ते न त्वं वस्तुम् इहार्हसि
राक्षसानाम् अयं वासो घोराणां कामरूपिणाम् ॥

3.44.24

प्रासादाग्र्याणि रम्याणि नगरोपवनानि च
सम्पन्नानि सुगन्धीनि युक्तान्य् आचरितुं त्वया ॥

3.44.25

वरं माल्यं वरं पानं वरं वस्त्रं च शोभने
भर्तारं च वरं मन्ये त्वद्युक्तम् असितेक्षणे ॥

3.44.26

का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते
वसूनां वा वरारोहे देवता प्रतिभासि मे ॥

3.44.27

नेह गच्छन्ति गन्धर्वा न देवा न च किंनराः
राक्षसानाम् अयं वासः कथं नु त्वम् इहागता ॥

3.44.28

इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास् तथा
ऋक्षास् तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसि ॥

3.44.29

मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम्
कथम् एका महारण्ये न बिभेषि वरानने ॥

3.44.30

कासि कस्य कुतश् च त्वं किंनिमित्तं च दण्डकान्
एका चरसि कल्याणि घोरान् राक्षससेवितान् ॥

3.44.31

इति प्रशस्ता वैदेही रावणेन दुरात्मना
द्विजातिवेषेण हि तं दृष्ट्वा रावणम् आगतम्
सर्वैर् अतिथिसत्कारैः पूजयामास मैथिली ॥

3.44.32

उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च
अब्रवीत् सिद्धम् इत्य् एव तदा तं सौम्यदर्शनम् ॥

3.44.33

द्विजातिवेषेण समीक्ष्य मैथिली तम् आगतं पात्रकुसुम्भधारिणम्
अशक्यम् उद्वेष्टुम् उपायदर्शनान् न्यमन्त्रयद् ब्राह्मणवद् यथागतम् ॥

3.44.34

इयं बृसी ब्राह्मण कामम् आस्यताम् इदं च पाद्यं प्रतिगृह्यताम् इति
इदं च सिद्धं वनजातम् उत्तमं त्वदर्थम् अव्यग्रम् इहोपभुज्यताम् ॥

3.44.35

निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम्
प्रहस्य तस्या हरणे धृतं मनः समर्पयामास वधाय रावणः ॥

3.44.36

ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा
निरीक्षमाणा हरितं ददर्श तन् महद् वनं नैव तु रामलक्ष्मणौ ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc