रामायण (संशोधित पाठ) · अध्याय 3.43
आर्तस्वरं तु तं भर्तुर् विज्ञाय सदृशं वने
उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ॥
न हि मे जीवितं स्थाने हृदयं वावतिष्ठते
क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ॥
आक्रन्दमानं तु वने भ्रातरं त्रातुम् अर्हसि
तं क्षिप्रम् अभिधाव त्वं भ्रातरं शरणैषिणम् ॥
रक्षसां वशम् आपन्नं सिंहानाम् इव गोवृषम्
न जगाम तथोक्तस् तु भ्रातुर् आज्ञाय शासनम् ॥
तम् उवाच ततस् तत्र कुपिता जनकात्मजा
सौमित्रे मित्ररूपेण भ्रातुस् त्वम् असि शत्रुवत् ॥
यस् त्वम् अस्याम् अवस्थायां भ्रातरं नाभिपद्यसे
इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते ॥
व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते
तेन तिष्ठसि विश्रब्धस् तम् अपश्यन् महाद्युतिम् ॥
किं हि संशयम् आपन्ने तस्मिन्न् इह मया भवेत्
कर्तव्यम् इह तिष्ठन्त्या यत् प्रधानस् त्वम् आगतः ॥
इति ब्रुवाणां वैदेहीं बाष्पशोकपरिप्लुताम्
अब्रवील् लक्ष्मणस् त्रस्तां सीतां मृगवधूम् इव ॥
देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु
राक्षसेषु पिशाचेषु किंनरेषु मृगेषु च ॥
दानवेषु च घोरेषु न स विद्येत शोभने
यो रामं प्रतियुध्येत समरे वासवोपमम् ॥
अवध्यः समरे रामो नैवं त्वं वक्तुम् अर्हसि
न त्वाम् अस्मिन् वने हातुम् उत्सहे राघवं विना ॥
अनिवार्यं बलं तस्य बलैर् बलवताम् अपि
त्रिभिर् लोकैः समुद्युक्तैः सेश्वरैः सामरैर् अपि ॥
हृदयं निर्वृतं ते ऽस्तु संतापस् त्यज्यताम् अयम्
आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् ॥
न स तस्य स्वरो व्यक्तं न कश्चिद् अपि दैवतः
गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः ॥
न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना
रामेण त्वं वरारोहे न त्वां त्यक्तुम् इहोत्सहे ॥
कृतवैराश् च कल्याणि वयम् एतैर् निशाचरैः
खरस्य निधने देवि जनस्थानवधं प्रति ॥
राक्षसा विधिना वाचो विसृजन्ति महावने
हिंसाविहारा वैदेहि न चिन्तयितुम् अर्हसि ॥
लक्ष्मणेनैवम् उक्ता तु क्रुद्धा संरक्तलोचना
अब्रवीत् परुषं वाक्यं लक्ष्मणं सत्यवादिनम् ॥
अनार्य करुणारम्भ नृशंस कुलपांसन
अहं तव प्रियं मन्ये तेनैतानि प्रभाषसे ॥
नैतच् चित्रं सपत्नेषु पापं लक्ष्मण यद् भवेत्
त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ॥
सुदुष्टस् त्वं वने रामम् एकम् एको ऽनुगच्छसि
मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥
कथम् इन्दीवरश्यामं रामं पद्मनिभेक्षणम्
उपसंश्रित्य भर्तारं कामयेयं पृथग् जनम् ॥
समक्षं तव सौमित्रे प्राणांस् त्यक्ष्ये न संशयः
रामं विना क्षणम् अपि न हि जीवामि भूतले ॥
इत्य् उक्तः परुषं वाक्यं सीतया रोमहर्षणम्
अब्रवील् लक्ष्मणः सीतां प्राञ्जलिर् विजितेन्द्रियः ॥
उत्तरं नोत्सहे वक्तुं दैवतं भवती मम
वाक्यम् अप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि ॥
स्वभावस् त्व् एष नारीणाम् एषु लोकेषु दृश्यते
विमुक्तधर्माश् चपलास् तीक्ष्णा भेदकराः स्त्रियः ॥
उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः
न्यायवादी यथा वाक्यम् उक्तो ऽहं परुषं त्वया ॥
धिक् त्वाम् अद्य प्रणश्य त्वं यन् माम् एवं विशङ्कसे
स्त्रीत्वाद् दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् ॥
गमिष्ये यत्र काकुत्स्थः स्वस्ति ते ऽस्तु वरानने
रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः ॥
निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे
अपि त्वां सह रामेण पश्येयं पुनर् आगतः ॥
लक्ष्मणेनैवम् उक्ता तु रुदती जनकात्मजा
प्रत्युवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता ॥
गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण
आबन्धिष्ये ऽथवा त्यक्ष्ये विषमे देहम् आत्मनः ॥
पिबामि वा विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम्
न त्व् अहं राघवाद् अन्यं पदापि पुरुषं स्पृशे ॥
इति लक्ष्मणम् आक्रुश्य सीता दुःखसमन्विता
पाणिभ्यां रुदती दुःखाद् उदरं प्रजघान ह ॥
ताम् आर्तरूपां विमना रुदन्तीं सौमित्रिर् आलोक्य विशालनेत्राम्
आश्वासयामास न चैव भर्तुस् तं भ्रातरं किंचिद् उवाच सीता ॥
ततस् तु सीताम् अभिवाद्य लक्ष्मणः कृताञ्जलिः किंचिद् अभिप्रणम्य
अवेक्षमाणो बहुशश् च मैथिलीं जगाम रामस्य समीपम् आत्मवान् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0