भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.42

3.42.1

तथा तु तं समादिश्य भ्रातरं रघुनन्दनः
बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् ॥

3.42.2

ततस् त्र्यवनतं चापम् आदायात्मविभूषणम्
आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः ॥

3.42.3

तं वञ्चयानो राजेन्द्रम् आपतन्तं निरीक्ष्य वै
बभूवान्तर्हितस् त्रासात् पुनः संदर्शने ऽभवत् ॥

3.42.4

बद्धासिर् धनुर् आदाय प्रदुद्राव यतो मृगः
तं स पश्यति रूपेण द्योतमानम् इवाग्रतः ॥

3.42.5

अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर् महावने
अतिवृत्तम् इषोः पाताल् लोभयानं कदाचन ॥

3.42.6

शङ्कितं तु समुद्भ्रान्तम् उत्पतन्तम् इवाम्बरे
दश्यमानम् अदृश्यं च नवोद्देशेषु केषुचित् ॥

3.42.7

छिन्नाभ्रैर् इव संवीतं शारदं चन्द्रमण्डलम्
मुहूर्ताद् एव ददृशे मुहुर् दूरात् प्रकाशते ॥

3.42.8

दर्शनादर्शनेनैव सो ऽपाकर्षत राघवम्
आसीत् क्रुद्धस् तु काकुत्स्थो विवशस् तेन मोहितः ॥

3.42.9

अथावतस्थे सुश्रान्तश् छायाम् आश्रित्य शाद्वले
मृगैः परिवृतो वन्यैर् अदूरात् प्रत्यदृश्यत ॥

3.42.10

दृष्ट्वा रामो महातेजास् तं हन्तुं कृतनिश्चयः
संधाय सुदृढे चापे विकृष्य बलवद् बली ॥

3.42.11

तम् एव मृगम् उद्दिश्य ज्वलन्तम् इव पन्नगम्
मुमोच ज्वलितं दीप्तम् अस्त्रब्रह्मविनिर्मितम् ॥

3.42.12

स भृशं मृगरूपस्य विनिर्भिद्य शरोत्तमः
मारीचस्यैव हृदयं विभेदाशनिसंनिभः ॥

3.42.13

तालमात्रम् अथोत्पत्य न्यपतत् स शरातुरः
व्यनदद् भैरवं नादं धरण्याम् अल्पजीवितः
म्रियमाणस् तु मारीचो जहौ तां कृत्रिमां तनुम् ॥

3.42.14

सम्प्राप्तकालम् आज्ञाय चकार च ततः स्वरम्
सदृशं राघवस्यैव हा सीते लक्ष्मणेति च ॥

3.42.15

तेन मर्मणि निर्विद्धः शरेणानुपमेन हि
मृगरूपं तु तत् त्यक्त्वा राक्षसं रूपम् आत्मनः
चक्रे स सुमहाकायो मारीचो जीवितं त्यजन् ॥

3.42.16

ततो विचित्रकेयूरः सर्वाभरणभूषितः
हेममाली महादंष्ट्रो राक्षसो ऽभूच् छराहतः ॥

3.42.17

तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम्
जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ॥

3.42.18

हा सीते लक्ष्मणेत्य् एवम् आक्रुश्य तु महास्वरम्
ममार राक्षसः सो ऽयं श्रुत्वा सीता कथं भवेत् ॥

3.42.19

लक्ष्मणश् च महाबाहुः काम् अवस्थां गमिष्यति
इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः ॥

3.42.20

तत्र रामं भयं तीव्रम् आविवेश विषादजम्
राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वरम् ॥

3.42.21

निहत्य पृषतं चान्यं मांसम् आदाय राघवः
त्वरमाणो जनस्थानं ससाराभिमुखस् तदा ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc