रामायण (संशोधित पाठ) · अध्याय 3.41
सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती
हेमराजतवर्णाभ्यां पार्श्वाभ्याम् उपशोभितम् ॥
प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी
भर्तारम् अपि चाक्रन्दल् लक्ष्मणं चैव सायुधम् ॥
तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ
वीक्षमाणौ तु तं देशं तदा ददृशतुर् मृगम् ॥
शङ्कमानस् तु तं दृष्ट्वा लक्ष्मणो रामम् अब्रवीत्
तम् एवैनम् अहं मन्ये मारीचं राक्षसं मृगम् ॥
चरन्तो मृगयां हृष्टा पापेनोपाधिना वने
अनेन निहता राम राजानः कामरूपिणा ॥
अस्य मायाविदो माया मृगरूपम् इदं कृतम्
भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम् ॥
मृगो ह्य् एवंविधो रत्न विचित्रो नास्ति राघव
जगत्यां जगतीनाथ मायैषा हि न संशयः ॥
एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता
उवाच सीता संहृष्टा छद्मना हृतचेतना ॥
आर्यपुत्राभिरामो ऽसौ मृगो हरति मे मनः
आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ॥
इहाश्रमपदे ऽस्माकं बहवः पुण्यदर्शनाः
मृगाश् चरन्ति सहिताश् चमराः सृमरास् तथा ॥
ऋक्षाः पृषतसंघाश् च वानराः किंनरास् तथा
विचरन्ति महाबाहो रूपश्रेष्ठा महाबलाः ॥
न चास्य सदृशो राजन् दृष्टपूर्वो मृगः पुरा
तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः ॥
नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः
द्योतयन् वनम् अव्यग्रं शोभते शशिसंनिभः ॥
अहो रूपम् अहो लक्ष्मीः स्वरसम्पच् च शोभना
मृगो ऽद्भुतो विचित्रो ऽसौ हृदयं हरतीव मे ॥
यदि ग्रहणम् अभ्येति जीवन्न् एव मृगस् तव
आश्चर्यभूतं भवति विस्मयं जनयिष्यति ॥
समाप्तवनवासानां राज्यस्थानां च नः पुनः
अन्तःपुरविभूषार्थो मृग एष भविष्यति ॥
भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो
मृगरूपम् इदं दिव्यं विस्मयं जनयिष्यति ॥
जीवन् न यदि ते ऽभ्येति ग्रहणं मृगसत्तमः
अजिनं नरशार्दूल रुचिरं मे भविष्यति ॥
निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि
शष्पबृस्यां विनीतायाम् इच्छाम्य् अहम् उपासितुम् ॥
कामवृत्तम् इदं रौद्रं स्त्रीणाम् असदृशं मतम्
वपुषा त्व् अस्य सत्त्वस्य विस्मयो जनितो मम ॥
तेन काञ्चनरोम्ना तु मणिप्रवरशृङ्गिणा
तरुणादित्यवर्णेन नक्षत्रपथवर्चसा
बभूव राघवस्यापि मनो विस्मयम् आगतम् ॥
एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगम् अद्भुतम्
उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ॥
पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगताम् इमाम्
रूपश्रेष्ठतया ह्य् एष मृगो ऽद्य न भविष्यति ॥
न वने नन्दनोद्देशे न चैत्ररथसंश्रये
कुतः पृथिव्यां सौमित्रे यो ऽस्य कश्चित् समो मृगः ॥
प्रतिलोमानुलोमाश् च रुचिरा रोमराजयः
शोभन्ते मृगम् आश्रित्य चित्राः कनकबिन्दुभिः ॥
पश्यास्य जृम्भमाणस्य दीप्ताम् अग्निशिखोपमाम्
जिह्वां मुखान् निःसरन्तीं मेघाद् इव शतह्रदाम् ॥
मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः
कस्य नामाभिरूपो ऽसौ न मनो लोभयेन् मृगः ॥
कस्य रूपम् इदं दृष्ट्वा जाम्बूनदमयप्रभम्
नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् ॥
मांसहेतोर् अपि मृगान् विहारार्थं च धन्विनः
घ्नन्ति लक्ष्मण राजानो मृगयायां महावने ॥
धनानि व्यवसायेन विचीयन्ते महावने
धातवो विविधाश् चापि मणिरत्नसुवर्णिनः ॥
तत् सारम् अखिलं नॄणां धनं निचयवर्धनम्
मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण ॥
अर्थी येनार्थकृत्येन संव्रजत्य् अविचारयन्
तम् अर्थम् अर्थशास्त्रज्ञः प्राहुर् अर्थ्याश् च लक्ष्मण ॥
एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि
उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥
न कादली न प्रियकी न प्रवेणी न चाविकी
भवेद् एतस्य सदृशी स्पर्शनेनेति मे मतिः ॥
एष चैव मृगः श्रीमान् यश् च दिव्यो नभश्चरः
उभाव् एतौ मृगौ दिव्यौ तारामृगमहीमृगौ ॥
यदि वायं तथा यन् मां भवेद् वदसि लक्ष्मण
मायैषा राक्षसस्येति कर्तव्यो ऽस्य वधो मया ॥
एतेन हि नृशंसेन मारीचेनाकृतात्मना
वने विचरता पूर्वं हिंसिता मुनिपुंगवाः ॥
उत्थाय बहवो येन मृगयायां जनाधिपाः
निहताः परमेष्वासास् तस्माद् वध्यस् त्व् अयं मृगः ॥
पुरस्ताद् इह वातापिः परिभूय तपस्विनः
उदरस्थो द्विजान् हन्ति स्वगर्भो ऽश्वतरीम् इव ॥
स कदाचिच् चिराल् लोके आससाद महामुनिम्
अगस्त्यं तेजसा युक्तं भक्ष्यस् तस्य बभूव ह ॥
समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम्
उत्स्मयित्वा तु भगवान् वातापिम् इदम् अब्रवीत् ॥
त्वयाविगण्य वातापे परिभूताश् च तेजसा
जीवलोके द्विजश्रेष्ठास् तस्माद् असि जरां गतः ॥
एवं तन् न भवेद् रक्षो वातापिर् इव लक्ष्मण
मद्विधं यो ऽतिमन्येत धर्मनित्यं जितेन्द्रियम् ॥
भवेद्धतो ऽयं वातापिर् अगस्त्येनेव मां गतिः
इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम् ॥
अस्याम् आयत्तम् अस्माकं यत् कृत्यं रघुनन्दन
अहम् एनं वधिष्यामि ग्रहीष्याम्य् अथवा मृगम् ॥
यावद् गच्छामि सौमित्रे मृगम् आनयितुं द्रुतम्
पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम् ॥
त्वचा प्रधानया ह्य् एष मृगो ऽद्य न भविष्यति
अप्रमत्तेन ते भाव्यम् आश्रमस्थेन सीतया ॥
यावत् पृषतम् एकेन सायकेन निहन्म्य् अहम्
हत्वैतच् चर्म आदाय शीघ्रम् एष्यामि लक्ष्मण ॥
प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण
भवाप्रमत्तः प्रतिगृह्य मैथिलीं प्रतिक्षणं सर्वत एव शङ्कितः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0