भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.40

3.40.1

एवम् उक्त्वा तु परुषं मारीचो रावणं ततः
गच्छावेत्य् अब्रवीद् दीनो भयाद् रात्रिंचरप्रभोः ॥

3.40.2

दृष्टश्चाहं पुनस् तेन शरचापासिधारिणा
मद्विधोद्यतशस्त्रेण विनष्टं जीवितं च मे ॥

3.40.3

किं तु कर्तुं मया शक्यम् एवं त्वयि दुरात्मनि
एष गच्छाम्य् अहं तात स्वस्ति ते ऽस्तु निशाचर ॥

3.40.4

प्रहृष्टस् त्व् अभवत् तेन वचनेन स राक्षसः
परिष्वज्य सुसंश्लिष्टम् इदं वचनम् अब्रवीत् ॥

3.40.5

एतच् छौण्डीर्ययुक्तं ते मच्छब्दाद् इव भाषितम्
इदानीम् असि मारीचः पूर्वम् अन्यो निशाचरः ॥

3.40.6

आरुह्यताम् अयं शीघ्रं खगो रत्नविभूषितः
मया सह रथो युक्तः पिशाचवदनैः खरैः ॥

3.40.7

ततो रावणमारीचौ विमानम् इव तं रथम्
आरुह्य ययतुः शीघ्रं तस्माद् आश्रममण्डलात् ॥

3.40.8

तथैव तत्र पश्यन्तौ पत्तनानि वनानि च
गिरींश् च सरितः सर्वा राष्ट्राणि नगराणि च ॥

3.40.9

समेत्य दण्डकारण्यं राघवस्याश्रमं ततः
ददर्श सहमरीचो रावणो राक्षसाधिपः ॥

3.40.10

अवतीर्य रथात् तस्मात् ततः काञ्चनभूषणात्
हस्ते गृहीत्वा मारीचं रावणो वाक्यम् अब्रवीत् ॥

3.40.11

एतद् रामाश्रमपदं दृश्यते कदलीवृतम्
क्रियतां तत् सखे शीघ्रं यदर्थं वयम् आगताः ॥

3.40.12

स रावणवचः श्रुत्वा मारीचो राक्षसस् तदा
मृगो भूत्वाश्रमद्वारि रामस्य विचचार ह ॥

3.40.13

मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः
रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः ॥

3.40.14

किंचिद् अभ्युन्नतग्रीव इन्द्रनीलनिभोदरः
मधूकनिभपार्श्वश् च कञ्जकिञ्जल्कसंनिभः ॥

3.40.15

वैडूर्यसंकाशखुरस् तनुजङ्घः सुसंहतः
इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः ॥

3.40.16

मनोहरस्निग्धवर्णो रत्नैर् नानाविधैर् वृतः
क्षणेन राक्षसो जातो मृगः परमशोभनः ॥

3.40.17

वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत्
मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः ॥

3.40.18

प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम्
विचरन् गच्छते सम्यक् शाद्वलानि समन्ततः ॥

3.40.19

रूप्यबिन्दुशतैश् चित्रो भूत्वा च प्रियदर्शनः
विटपीनां किसलयान् भङ्क्त्वादन् विचचार ह ॥

3.40.20

कदलीगृहकं गत्वा कर्णिकारान् इतस् ततः
समाश्रयन् मन्दगतिः सीतासंदर्शनं तदा ॥

3.40.21

राजीवचित्रपृष्ठः स विरराज महामृगः
रामाश्रमपदाभ्याशे विचचार यथासुखम् ॥

3.40.22

पुनर् गत्वा निवृत्तश् च विचचार मृगोत्तमः
गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते ॥

3.40.23

विक्रीडंश् च पुनर् भूमौ पुनर् एव निषीदति
आश्रमद्वारम् आगम्य मृगयूथानि गच्छति ॥

3.40.24

मृगयूथैर् अनुगतः पुनर् एव निवर्तते
सीतादर्शनम् आकाङ्क्षन् राक्षसो मृगतां गतः ॥

3.40.25

परिभ्रमति चित्राणि मण्डलानि विनिष्पतन्
समुद्वीक्ष्य च सर्वे तं मृगा ये ऽन्ये वनेचराः ॥

3.40.26

उपगम्य समाघ्राय विद्रवन्ति दिशो दश
राक्षसः सो ऽपि तान् वन्यान् मृगान् मृगवधे रतः ॥

3.40.27

प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन्
तस्मिन्न् एव ततः काले वैदेही शुभलोचना ॥

3.40.28

कुसुमापचये व्यग्रा पादपान् अत्यवर्तत
कर्णिकारान् अशोकांश् च चूतांश् च मदिरेक्षणा ॥

3.40.29

कुसुमान्य् अपचिन्वन्ती चचार रुचिरानना
अनर्हारण्यवासस्य सा तं रत्नमयं मृगम्
मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना ॥

3.40.30

तं वै रुचिरदन्तौष्ठं रूप्यधातुतनूरुहम्
विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत ॥

3.40.31

स च तां रामदयितां पश्यन् मायामयो मृगः
विचचार ततस् तत्र दीपयन्न् इव तद् वनम् ॥

3.40.32

अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम्
विस्मयं परमं सीता जगाम जनकात्मजा ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc