रामायण (संशोधित पाठ) · अध्याय 3.39
आज्ञप्तो राजवद् वाक्यं प्रतिकूलं निशाचरः
अब्रवीत् परुषं वाक्यं मारीचो राक्षसाधिपम् ॥
केनायम् उपदिष्टस् ते विनाशः पापकर्मणा
सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर ॥
कस् त्वया सुखिना राजन् नाभिनन्दति पापकृत्
केनेदम् उपदिष्टं ते मृत्युद्वारम् उपायतः ॥
शत्रवस् तव सुव्यक्तं हीनवीर्या निशाचर
इच्छन्ति त्वां विनश्यन्तम् उपरुद्धं बलीयसा ॥
केनेदम् उपदिष्टं ते क्षुद्रेणाहितवादिना
यस् त्वाम् इच्छति नश्यन्तं स्वकृतेन निशाचर ॥
वध्याः खलु न हन्यन्ते सचिवास् तव रावण
ये त्वाम् उत्पथम् आरूढं न निगृह्णन्ति सर्वशः ॥
अमात्यैः कामवृत्तो हि राजा कापथम् आश्रितः
निग्राह्यः सर्वथा सद्भिर् न निग्राह्यो निगृह्यसे ॥
धर्मम् अर्थं च कामं च यशश् च जयतां वर
स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ॥
विपर्यये तु तत् सर्वं व्यर्थं भवति रावण
व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः ॥
राजमूलो हि धर्मश् च जयश् च जयतां वर
तस्मात् सर्वास्व् अवस्थासु रक्षितव्यो नराधिपः ॥
राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर
न चापि प्रतिकूलेन नाविनीतेन राक्षस ॥
ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै
विषमेषु रथाः शीघ्रं मन्दसारथयो यथा ॥
बहवः साधवो लोके युक्तधर्मम् अनुष्ठिताः
परेषाम् अपराधेन विनष्टाः सपरिच्छदाः ॥
स्वामिना प्रतिकूलेन प्रजास् तीक्ष्णेन रावण
रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः
येषां त्वं कर्कशो राजा दुर्बुद्धिर् अजितेन्द्रियः ॥
तद् इदं काकतालीयं घोरम् आसादितं त्वया
अत्र किं शोभनं यत् त्वं ससैन्यो विनशिष्यसि ॥
मां निहत्य तु रामो ऽसौ नचिरात् त्वां वधिष्यति
अनेन कृतकृत्यो ऽस्मि म्रिये यद् अरिणा हतः ॥
दर्शनाद् एव रामस्य हतं माम् उपधारय
आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम् ॥
आनयिष्यामि चेत् सीताम् आश्रमात् सहितो मया
नैव त्वम् असि नैवाहं नैव लङ्का न राक्षसाः ॥
निवार्यमाणस् तु मया हितैषिणा न मृष्यसे वाक्यम् इदं निशाचर
परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिर् ईरितम् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0