भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.4

3.4.1

हत्वा तु तं भीमबलं विराधं राक्षसं वने
ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान्
अब्रवील् लक्ष्मणं रामो भ्रातरं दीप्ततेजसम् ॥

3.4.2

कष्टं वनम् इदं दुर्गं न च स्मो वनगोचराः
अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् ॥

3.4.3

आश्रमं शरभङ्गस्य राघवो ऽभिजगाम ह ॥

3.4.4

तस्य देवप्रभावस्य तपसा भावितात्मनः
समीपे शरभङ्गस्य ददर्श महद् अद्भुतम् ॥

3.4.5

विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम्
असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् ॥

3.4.6

सुप्रभाभरणं देवं विरजोऽम्बरधारिणम्
तद्विधैर् एव बहुभिः पूज्यमानं महात्मभिः ॥

3.4.7

हरिभिर् वाजिभिर् युक्तम् अन्तरिक्षगतं रथम्
ददर्शादूरतस् तस्य तरुणादित्यसंनिभम् ॥

3.4.8

पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम्
अपश्यद् विमलं छत्त्रं चित्रमाल्योपशोभितम् ॥

3.4.9

चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने
गृहीते वननारीभ्यां धूयमाने च मूर्धनि ॥

3.4.10

गन्धर्वामरसिद्धाश् च बहवः परमर्षयः
अन्तरिक्षगतं देवं वाग्भिर् अग्र्याभिर् ईडिरे ॥

3.4.11

दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणम् अब्रवीत्
ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः
अन्तरिक्षगता दिव्यास् त इमे हरयो ध्रुवम् ॥

3.4.12

इमे च पुरुषव्याघ्र ये तिष्ठन्त्य् अभितो रथम्
शतं शतं कुण्डलिनो युवानः खड्गपाणयः ॥

3.4.13

उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः
रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् ॥

3.4.14

एतद्धि किल देवानां वयो भवति नित्यदा
यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः ॥

3.4.15

इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण
यावज् जनाम्य् अहं व्यक्तं क एष द्युतिमान् रथे ॥

3.4.16

तम् एवम् उक्त्वा सौमित्रिम् इहैव स्थीयताम् इति
अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति ॥

3.4.17

ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः
शरभङ्गम् अनुज्ञाप्य विबुधान् इदम् अब्रवीत् ॥

3.4.18

इहोपयात्य् असौ रामो यावन् मां नाभिभाषते
निष्ठां नयत तावत् तु ततो मां द्रष्टुम् अर्हति ॥

3.4.19

जितवन्तं कृतार्थं च द्रष्टाहम् अचिराद् इमम्
कर्म ह्य् अनेन कर्तव्यं महद् अन्यैः सुदुष्करम् ॥

3.4.20

इति वज्री तम् आमन्त्र्य मानयित्वा च तापसम्
रथेन हरियुक्तेन ययौ दिवम् अरिंदमः ॥

3.4.21

प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः
अग्निहोत्रम् उपासीनं शरभङ्गम् उपागमत् ॥

3.4.22

तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः
निषेदुस् तदनुज्ञाता लब्धवासा निमन्त्रिताः ॥

3.4.23

ततः शक्रोपयानं तु पर्यपृच्छत् स राघवः
शरभङ्गश् च तत् सर्वं राघवाय न्यवेदयत् ॥

3.4.24

माम् एष वरदो राम ब्रह्मलोकं निनीषति
जितम् उग्रेण तपसा दुष्प्रापम् अकृतात्मभिः ॥

3.4.25

अहं ज्ञात्वा नरव्याघ्र वर्तमानम् अदूरतः
ब्रह्मलोकं न गच्छामि त्वाम् अदृष्ट्वा प्रियातिथिम् ॥

3.4.26

समागम्य गमिष्यामि त्रिदिवं देवसेवितम्
अक्षया नरशार्दूल जिता लोका मया शुभाः
ब्राह्म्याश् च नाकपृष्ठ्याश् च प्रतिगृह्णीष्व मामकान् ॥

3.4.27

एवम् उक्तो नरव्याघ्रः सर्वशास्त्रविशारदः
ऋषिणा शरभङ्गेन राघवो वाक्यम् अब्रवीत् ॥

3.4.28

अहम् एवाहरिष्यामि सर्वांल् लोकान् महामुने
आवासं त्व् अहम् इच्छामि प्रदिष्टम् इह कानने ॥

3.4.29

राघवेणैवम् उक्तस् तु शक्रतुल्यबलेन वै
शरभङ्गो महाप्राज्ञः पुनर् एवाब्रवीद् वचः ॥

3.4.30

सुतीक्ष्णम् अभिगच्छ त्वं शुचौ देशे तपस्विनम्
रमणीये वनोद्देशे स ते वासं विधास्यति ॥

3.4.31

एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम्
यावज् जहामि गात्राणि जीर्णां त्वचम् इवोरगः ॥

3.4.32

ततो ऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवित्
शरभङ्गो महातेजाः प्रविवेश हुताशनम् ॥

3.4.33

तस्य रोमाणि केशांश् च ददाहाग्निर् महात्मनः
जीर्णां त्वचं तथास्थीनि यच् च मांसं च शोणितम् ॥

3.4.34

स च पावकसंकाशः कुमारः समपद्यत
उत्थायाग्निचयात् तस्माच् छरभङ्गो व्यरोचत ॥

3.4.35

स लोकान् आहिताग्नीनाम् ऋषीणां च महात्मनाम्
देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥

3.4.36

स पुण्यकर्मा भुवने द्विजर्षभः पितामहं सानुचरं ददर्श ह
पितामहश् चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतम् इत्य् उवाच ह ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc