भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.3

3.3.1

अथोवाच पुनर् वाक्यं विराधः पूरयन् वनम्
आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः ॥

3.3.2

तम् उवाच ततो रामो राक्षसं ज्वलिताननम्
पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलम् आत्मनः ॥

3.3.3

क्षत्रियौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ
त्वां तु वेदितुम् इच्छावः कस् त्वं चरसि दण्डकान् ॥

3.3.4

तम् उवाच विराधस् तु रामं सत्यपराक्रमम्
हन्त वक्ष्यामि ते राजन् निबोध मम राघव ॥

3.3.5

पुत्रः किल जयस्याहं माता मम शतह्रदा
विराध इति माम् आहुः पृथिव्यां सर्वराक्षसाः ॥

3.3.6

तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा
शस्त्रेणावध्यता लोके ऽच्छेद्याभेद्यत्वम् एव च ॥

3.3.7

उत्सृज्य प्रमदाम् एनाम् अनपेक्षौ यथागतम्
त्वरमाणौ पालयेथां न वां जीवितम् आददे ॥

3.3.8

तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः
राक्षसं विकृताकारं विराधं पापचेतसम् ॥

3.3.9

क्षुद्र धिक् त्वां तु हीनार्थं मृत्युम् अन्वेषसे ध्रुवम्
रणे सम्प्राप्स्यसे तिष्ठ न मे जीवन् गमिष्यसि ॥

3.3.10

ततः सज्यं धनुः कृत्वा रामः सुनिशिताञ् शरान्
सुशीघ्रम् अभिसंधाय राक्षसं निजघान ह ॥

3.3.11

धनुषा ज्यागुणवता सप्तबाणान् मुमोच ह
रुक्मपुङ्खान् महावेगान् सुपर्णानिलतुल्यगान् ॥

3.3.12

ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः
निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः ॥

3.3.13

स विनद्य महानादं शूलं शक्रध्वजोपमम्
प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः ॥

3.3.14

तच् छूलं वज्रसंकाशं गगने ज्वलनोपमम्
द्वाभ्यां शराभ्यां चिछेद रामः शस्त्रभृतां वरः ॥

3.3.15

तस्य रौद्रस्य सौमित्रिर् बाहुं सव्यं बभञ्ज ह
रामस् तु दक्षिणं बाहुं तरसा तस्य रक्षसः ॥

3.3.16

स भग्नबाहुः संविग्नो निपपाताशु राक्षसः
धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः
इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ॥

3.3.17

कौसल्या सुप्रजास् तात रामस् त्वं विदितो मया
वैदेही च महाभागा लक्ष्मणश् च महायशाः ॥

3.3.18

अभिशापाद् अहं घोरां प्रविष्टो राक्षसीं तनुम्
तुम्बुरुर् नाम गन्धर्वः शप्तो वैश्रवणेन हि ॥

3.3.19

प्रसाद्यमानश् च मया सो ऽब्रवीन् मां महायशाः
यदा दाशरथी रामस् त्वां वधिष्यति संयुगे ॥

3.3.20

तदा प्रकृतिम् आपन्नो भवान् स्वर्गं गमिष्यति
इति वैश्रवणो राजा रम्भासक्तम् उवाच ह ॥

3.3.21

अनुपस्थीयमानो मां संक्रुद्धो व्याजहार ह
तव प्रसादान् मुक्तो ऽहम् अभिशापात् सुदारुणात्
भवनं स्वं गमिष्यामि स्वस्ति वो ऽस्तु परंतप ॥

3.3.22

इतो वसति धर्मात्मा शरभङ्गः प्रतापवान्
अध्यर्धयोजने तात महर्षिः सूर्यसंनिभः ॥

3.3.23

तं क्षिप्रम् अभिगच्छ त्वं स ते श्रेयो विधास्यति
अवटे चापि मां राम निक्षिप्य कुशली व्रज ॥

3.3.24

रक्षसां गतसत्त्वानाम् एष धर्मः सनातनः
अवटे ये निधीयन्ते तेषां लोकाः सनातनाः ॥

3.3.25

एवम् उक्त्वा तु काकुत्स्थं विराधः शरपीडितः
बभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः ॥

3.3.26

तं मुक्तकण्ठम् उत्क्षिप्य शङ्कुकर्णं महास्वनम्
विराधं प्राक्षिपच् छ्वभ्रे नदन्तं भैरवस्वनम् ॥

3.3.27

ततस् तु तौ काञ्चनचित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम्
विजह्रतुस् तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराव् इव ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc