रामायण (संशोधित पाठ) · अध्याय 3.38
मारीचेन तु तद् वाक्यं क्षमं युक्तं च रावणः
उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ॥
तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः
अब्रवीत् परुषं वाक्यम् अयुक्तं कालचोदितः ॥
यत् किलैतद् अयुक्तार्थं मारीच मयि कथ्यते
वाक्यं निष्फलम् अत्यर्थं बीजम् उप्तम् इवोषरे ॥
त्वद्वाक्यैर् न तु मां शक्यं भेत्तुं रामस्य संयुगे
पापशीलस्य मूर्खस्य मानुषस्य विशेषतः ॥
यस् त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा
स्त्रीवाक्यं प्राकृतं श्रुत्वा वनम् एकपदे गतः ॥
अवश्यं तु मया तस्य संयुगे खरघातिनः
प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ ॥
एवं मे निश्चिता बुद्धिर् हृदि मारीच वर्तते
न व्यावर्तयितुं शक्या सेन्द्रैर् अपि सुरासुरैः ॥
दोषं गुणं वा संपृष्टस् त्वम् एवं वक्तुम् अर्हसि
अपायं वाप्य् उपायं वा कार्यस्यास्य विनिश्चये ॥
संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता
उद्यताञ्जलिना राज्ञो य इच्छेद् भूतिम् आत्मनः ॥
वाक्यम् अप्रतिकूलं तु मृदुपूर्वं शुभं हितम्
उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ॥
सावमर्दं तु यद् वाक्यं मारीच हितम् उच्यते
नाभिनन्दति तद् राजा मानार्हो मानवर्जितम् ॥
पञ्चरूपाणि राजानो धारयन्त्य् अमितौजसः
अग्नेर् इन्द्रस्य सोमस्य यमस्य वरुणस्य च
औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् ॥
तस्मात् सर्वास्व् अवस्थासु मान्याः पूज्याश् च पार्थिवाः
त्वं तु धर्मम् अविज्ञाय केवलं मोहम् आस्थितः ॥
अभ्यागतं मां दौरात्म्यात् परुषं वदसीदृशम्
गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस
अस्मिंस् तु स भवान् कृत्ये साहाय्यं कर्तुम् अर्हसि ॥
सौवर्णस् त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुम् अर्हसि ॥
त्वां तु मायामृगं दृष्ट्वा काञ्चनं जातविस्मया
आनयैनम् इति क्षिप्रं रामं वक्ष्यति मैथिली ॥
अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम्
आनयिष्यामि वैदेहीं सहस्राक्षः शचीम् इव ॥
एवं कृत्वा त्व् इदं कार्यं यथेष्टं गच्छ राक्षस
राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत ॥
गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये
प्राप्य सीताम् अयुद्धेन वञ्चयित्वा तु राघवम्
लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया ॥
एतत् कार्यम् अवश्यं मे बलाद् अपि करिष्यसि
राज्ञो हि प्रतिकूलस्थो न जातु सुखम् एधते ॥
आसाद्य तं जीवितसंशयस् ते मृत्युर् ध्रुवो ह्य् अद्य मया विरुध्य
एतद् यथावत् परिगृह्य बुद्ध्या यद् अत्र पथ्यं कुरु तत् तथा त्वम् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0