भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.37

3.37.1

एवम् अस्मि तदा मुक्तः कथंचित् तेन संयुगे
इदानीम् अपि यद् वृत्तं तच् छृणुष्व यद् उत्तरम् ॥

3.37.2

राक्षसाभ्याम् अहं द्वाभ्याम् अनिर्विण्णस् तथा कृतः
सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् ॥

3.37.3

दीप्तजिह्वो महाकायस् तीक्ष्णशृङ्गो महाबलः
व्यचरं दण्डकारण्यं मांसभक्षो महामृगः ॥

3.37.4

अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण
अत्यन्तघोरो व्यचरं तापसांस् तान् प्रधर्षयन् ॥

3.37.5

निहत्य दण्डकारण्ये तापसान् धर्मचारिणः
रुधिराणि पिबंस् तेषां तथा मांसानि भक्षयन् ॥

3.37.6

ऋषिमांसाशनः क्रूरस् त्रासयन् वनगोचरान्
तदा रुधिरमत्तो ऽहं व्यचरं दण्डकावनम् ॥

3.37.7

तदाहं दण्डकारण्ये विचरन् धर्मदूषकः
आसादयं तदा रामं तापसं धर्मम् आश्रितम् ॥

3.37.8

वैदेहीं च महाभागां लक्ष्मणं च महारथम्
तापसं नियताहारं सर्वभूतहिते रतम् ॥

3.37.9

सो ऽहं वनगतं रामं परिभूय महाबलम्
तापसो ऽयम् इति ज्ञात्वा पूर्ववैरम् अनुस्मरन् ॥

3.37.10

अभ्यधावं सुसंक्रुद्धस् तीक्ष्णशृङ्गो मृगाकृतिः
जिघांसुर् अकृतप्रज्ञस् तं प्रहारम् अनुस्मरन् ॥

3.37.11

तेन मुक्तास् त्रयो बाणाः शिताः शत्रुनिबर्हणाः
विकृष्य बलवच् चापं सुपर्णानिलतुल्यगाः ॥

3.37.12

ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः
आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः ॥

3.37.13

पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा
समुत्क्रान्तस् ततो मुक्तस् ताव् उभौ राक्षसौ हतौ ॥

3.37.14

शरेण मुक्तो रामस्य कथंचित् प्राप्य जीवितम्
इह प्रव्राजितो युक्तस् तापसो ऽहं समाहितः ॥

3.37.15

वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम्
गृहीतधनुषं रामं पाशहस्तम् इवान्तकम् ॥

3.37.16

अपि रामसहस्राणि भीतः पश्यामि रावण
रामभूतम् इदं सर्वम् अरण्यं प्रतिभाति मे ॥

3.37.17

रामम् एव हि पश्यामि रहिते राक्षसेश्वर
दृष्ट्वा स्वप्नगतं रामम् उद्भ्रमामि विचेतनः ॥

3.37.18

रकारादीनि नामानि रामत्रस्तस्य रावण
रत्नानि च रथाश् चैव त्रासं संजनयन्ति मे ॥

3.37.19

अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम्
रणे रामेण युध्यस्व क्षमां वा कुरु राक्षस
न ते रामकथा कार्या यदि मां द्रष्टुम् इच्छसि ॥

3.37.20

इदं वचो बन्धुहितार्थिना मया यथोच्यमानं यदि नाभिपत्स्यसे
सबान्धवस् त्यक्ष्यसि जीवितं रणे हतो ऽद्य रामेण शरैर् अजिह्मगैः ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc