रामायण (संशोधित पाठ) · अध्याय 3.36
कदाचिद् अप्य् अहं वीर्यात् पर्यटन् पृथिवीम् इमाम्
बलं नागसहस्रस्य धारयन् पर्वतोपमः ॥
नीलजीमूतसंकाशस् तप्तकाञ्चनकुण्डलः
भयं लोकस्य जनयन् किरीटी परिघायुधः
व्यचरं दण्डकारण्यम् ऋषिमांसानि भक्षयन् ॥
विश्वामित्रो ऽथ धर्मात्मा मद्वित्रस्तो महामुनिः
स्वयं गत्वा दशरथं नरेन्द्रम् इदम् अब्रवीत् ॥
अयं रक्षतु मां रामः पर्वकाले समाहितः
मारीचान् मे भयं घोरं समुत्पन्नं नरेश्वर ॥
इत्य् एवम् उक्तो धर्मात्मा राजा दशरथस् तदा
प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् ॥
ऊनषोडशवर्षो ऽयम् अकृतास्त्रश् च राघवः
कामं तु मम यत् सैन्यं मया सह गमिष्यति
वधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम् ॥
इत्य् एवम् उक्तः स मुनी राजानं पुनर् अब्रवीत्
रामान् नान्यद् बलं लोके पर्याप्तं तस्य रक्षसः ॥
बालो ऽप्य् एष महातेजाः समर्थस् तस्य निग्रहे
गमिष्ये रामम् आदाय स्वस्ति ते ऽस्तु परंतप ॥
इत्य् एवम् उक्त्वा स मुनिस् तम् आदाय नृपात्मजम्
जगाम परमप्रीतो विश्वामित्रः स्वम् आश्रमम् ॥
तं तदा दण्डकारण्ये यज्ञम् उद्दिश्य दीक्षितम्
बभूवावस्थितो रामश् चित्रं विस्फारयन् धनुः ॥
अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः
एकवस्त्रधरो धन्वी शिखी कनकमालया ॥
शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा
अदृश्यत तदा रामो बालचन्द्र इवोदितः ॥
ततो ऽहं मेघसंकाशस् तप्तकाञ्चनकुण्डलः
बली दत्तवरो दर्पाद् आजगाम तदाश्रमम् ॥
तेन दृष्टः प्रविष्टो ऽहं सहसैवोद्यतायुधः
मां तु दृष्ट्वा धनुः सज्यम् असम्भ्रान्तश् चकार ह ॥
अवजानन्न् अहं मोहाद् बालो ऽयम् इति राघवम्
विश्वामित्रस्य तां वेदिम् अध्यधावं कृतत्वरः ॥
तेन मुक्तस् ततो बाणः शितः शत्रुनिबर्हणः
तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने ॥
रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः
पातितो ऽहं तदा तेन गम्भीरे सागराम्भसि
प्राप्य संज्ञां चिरात् तात लङ्कां प्रति गतः पुरीम् ॥
एवम् अस्मि तदा मुक्तः सहायास् ते निपातिताः
अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा ॥
तन् मया वार्यमाणस् त्वं यदि रामेण विग्रहम्
करिष्यस्य् आपदं घोरां क्षिप्रं प्राप्य नशिष्यसि ॥
क्रीडारतिविधिज्ञानां समाजोत्सवशालिनाम्
रक्षसां चैव संतापम् अनर्थं चाहरिष्यसि ॥
हर्म्यप्रासादसम्बाधां नानारत्नविभूषिताम्
द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते ॥
अकुर्वन्तो ऽपि पापानि शुचयः पापसंश्रयात्
परपापैर् विनश्यन्ति मत्स्या नागह्रदे यथा ॥
दिव्यचन्दनदिग्धाङ्गान् दिव्याभरणभूषितान्
द्रक्ष्यस्य् अभिहतान् भूमौ तव दोषात् तु राक्षसान् ॥
हृतदारान् सदारांश् च दश विद्रवतो दिशः
हतशेषान् अशरणान् द्रक्ष्यसि त्वं निशाचरान् ॥
शरजालपरिक्षिप्ताम् अग्निज्वालासमावृताम्
प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वम् असंशयम् ॥
प्रमदानां सहस्राणि तव राजन् परिग्रहः
भव स्वदारनिरतः स्वकुलं रक्ष राक्षस ॥
मानं वृद्धिं च राज्यं च जीवितं चेष्टम् आत्मनः
यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम् ॥
निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि
गमिष्यसि क्षीणबलः सबान्धवो यमक्षयं रामशरात्तजीवितः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0