रामायण (संशोधित पाठ) · अध्याय 3.35
तच् छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः
प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥
सुलभाः पुरुषा राजन् सततं प्रियवादिनः
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥
न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम्
अयुक्तचारश् चपलो महेन्द्रवरुणोपमम् ॥
अपि स्वस्ति भवेत् तात सर्वेषां भुवि रक्षसाम्
अपि रामो न संक्रुद्धः कुर्याल् लोकम् अराक्षसम् ॥
अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा
अपि सीता निमित्तं च न भवेद् व्यसनं महत् ॥
अपि त्वाम् ईश्वरं प्राप्य कामवृत्तं निरङ्कुशम्
न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा ॥
त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः
आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ॥
न च पित्रा परित्यक्तो नामर्यादः कथंचन
न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः ॥
न च धर्मगुणैर् हीनः कौसल्यानन्दवर्धनः
न च तीक्ष्णो हि भूतानां सर्वेषां च हिते रतः ॥
वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम्
करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम् ॥
कैकेय्याः प्रियकामार्थं पितुर् दशरथस्य च
हित्वा राज्यं च भोगांश् च प्रविष्टो दण्डकावनम् ॥
न रामः कर्कशस् तात नाविद्वान् नाजितेन्द्रियः
अनृतं न श्रुतं चैव नैव त्वं वक्तुम् अर्हसि ॥
रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः
राजा सर्वस्य लोकस्य देवानाम् इव वासवः ॥
कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा
इच्छसि प्रसभं हर्तुं प्रभाम् इव विवस्वतः ॥
शरार्चिषम् अनाधृष्यं चापखड्गेन्धनं रणे
रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वम् अर्हसि ॥
धनुर्व्यादितदीप्तास्यं शरार्चिषम् अमर्षणम्
चापबाणधरं वीरं शत्रुसेनापहारिणम् ॥
राज्यं सुखं च संत्यज्य जीवितं चेष्टम् आत्मनः
नात्यासादयितुं तात रामान्तकम् इहार्हसि ॥
अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा
न त्वं समर्थस् तां हर्तुं रामचापाश्रयां वने ॥
प्राणेभ्यो ऽपि प्रियतरा भार्या नित्यम् अनुव्रता
दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा ॥
किम् उद्यमं व्यर्थम् इमं कृत्वा ते राक्षसाधिप
दृष्टश् चेत् त्वं रणे तेन तदन्तं तव जीवितम्
जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् ॥
स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः
मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयम् आत्मनः ॥
दोषाणां च गुणानां च सम्प्रधार्य बलाबलम्
आत्मनश् च बलं ज्ञात्वा राघवस्य च तत्त्वतः
हितं हि तव निश्चित्य क्षमं त्वं कर्तुम् अर्हसि ॥
अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना
इदं हि भूयः शृणु वाक्यम् उत्तमं क्षमं च युक्तं च निशाचराधिप ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0