रामायण (संशोधित पाठ) · अध्याय 3.34
मारीच श्रूयतां तात वचनं मम भाषतः
आर्तो ऽस्मि मम चार्तस्य भवान् हि परमा गतिः ॥
जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम
दूषणश् च महाबाहुः स्वसा शूर्पणखा च मे ॥
त्रिशिराश् च महातेजा राक्षसः पिशिताशनः
अन्ये च बहवः शूरा लब्धलक्षा निशाचराः ॥
वसन्ति मन्नियोगेन अधिवासं च राक्षसः
बाधमाना महारण्ये मुनीन् ये धर्मचारिणः ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्
शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् ॥
ते त्व् इदानीं जनस्थाने वसमाना महाबलाः
संगताः परम् आयत्ता रामेण सह संयुगे ॥
तेन संजातरोषेण रामेण रणमूर्धनि
अनुक्त्वा परुषं किंचिच् छरैर् व्यापारितं धनुः ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्
निहतानि शरैस् तीक्ष्णैर् मानुषेण पदातिना ॥
खरश् च निहतः संख्ये दूषणश् च निपातितः
हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः ॥
पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः
स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः ॥
अशीलः कर्कशस् तीक्ष्णो मूर्खो लुब्धो ऽजितेन्द्रियः
त्यक्तधर्मस् त्व् अधर्मात्मा भूतानाम् अहिते रतः ॥
येन वैरं विनारण्ये सत्त्वम् आश्रित्य केवलम्
कर्णनासापहारेण भगिनी मे विरूपिता ॥
तस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम्
आनयिष्यामि विक्रम्य सहायस् तत्र मे भव ॥
त्वया ह्य् अहं सहायेन पार्श्वस्थेन महाबल
भ्रातृभिश् च सुरान् युद्धे समग्रान् नाभिचिन्तये ॥
तत् सहायो भव त्वं मे समर्थो ह्य् असि राक्षस
वीर्ये युद्धे च दर्पे च न ह्य् अस्ति सदृशस् तव ॥
एतदर्थम् अहं प्राप्तस् त्वत्समीपं निशाचर
शृणु तत् कर्म साहाय्ये यत् कार्यं वचनान् मम ॥
सौवर्णस् त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥
त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम्
गृह्यताम् इति भर्तारं लक्ष्मणं चाभिधास्यति ॥
ततस् तयोर् अपाये तु शून्ये सीतां यथासुखम्
निराबाधो हरिष्यामि राहुश् चन्द्रप्रभाम् इव ॥
ततः पश्चात् सुखं रामे भार्याहरणकर्शिते
विश्रब्धः प्रहरिष्यामि कृतार्थेनान्तरात्मना ॥
तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः
शुष्कं समभवद् वक्त्रं परित्रस्तो बभूव च ॥
स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः
कृताञ्जलिस् तत्त्वम् उवाच वाक्यं हितं च तस्मै हितम् आत्मनश् च ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0