रामायण (संशोधित पाठ) · अध्याय 3.33
ततः शूर्पणखावाक्यं तच् छ्रुत्वा रोमहर्षणम्
सचिवान् अभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह ॥
तत् कार्यम् अनुगम्याथ यथावद् उपलभ्य च
दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ॥
इति कर्तव्यम् इत्य् एव कृत्वा निश्चयम् आत्मनः
स्थिरबुद्धिस् ततो रम्यां यानशालां जगाम ह ॥
यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः
सूतं संचोदयामास रथः संयुज्यताम् इति ॥
एवम् उक्तः क्षणेनैव सारथिर् लघुविक्रमः
रथं संयोजयामास तस्याभिमतम् उत्तमम् ॥
काञ्चनं रथम् आस्थाय कामगं रत्नभूषितम्
पिशाचवदनैर् युक्तं खरैः कनकभूषणैः ॥
मेघप्रतिमनादेन स तेन धनदानुजः
राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम् ॥
स श्वेतवालव्यसनः श्वेतच्छत्त्रो दशाननः
स्निग्धवैडूर्यसंकाशस् तप्तकाञ्चनभूषणः ॥
दशास्यो विंशतिभुजो दर्शनीयपरिच्छदः
त्रिदशारिर् मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् ॥
कामगं रथम् आस्थाय शुशुभे राक्षसाधिपः
विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे ॥
सशैलं सागरानूपं वीर्यवान् अवलोकयन्
नानापुष्पफलैर् वृक्षैर् अनुकीर्णं सहस्रशः ॥
शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः
विशालैर् आश्रमपदैर् वेदिमद्भिः समावृतम् ॥
कदल्याढकीसम्बाधं नालिकेरोपशोभितम्
सालैस् तालैस् तमालैश् च तरुभिश् च सुपुष्पितैः ॥
अत्यन्तनियताहारैः शोभितं परमर्षिभिः
नागैः सुपर्णैर् गन्धर्वैः किंनरैश् च सहस्रशः ॥
जितकामैश् च सिद्धैश् च चारणैश् चोपशोभितम्
आजैर् वैखानसैर् माषैर् वालखिल्यैर् मरीचिपैः ॥
दिव्याभरणमाल्याभिर् दिव्यरूपाभिर् आवृतम्
क्रीडारतिविधिज्ञाभिर् अप्सरोभिः सहस्रशः ॥
सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम्
देवदानवसंघैश् च चरितं त्व् अमृताशिभिः ॥
हंसक्रौञ्चप्लवाकीर्णं सारसैः संप्रणादितम्
वैडूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा ॥
पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च
तूर्यगीताभिजुष्टानि विमानानि समन्ततः ॥
तपसा जितलोकानां कामगान्य् अभिसंपतन्
गन्धर्वाप्सरसश् चैव ददर्श धनदानुजः ॥
निर्यासरसमूलानां चन्दनानां सहस्रशः
वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च ॥
अगरूणां च मुख्यानां वनान्य् उपवनानि च
तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम् ॥
पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च
मुक्तानां च समूहानि शुष्यमाणानि तीरतः ॥
शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा
काञ्चनानि च शैलानि राजतानि च सर्वशः ॥
प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च
धनधान्योपपन्नानि स्त्रीरत्नैर् आवृतानि च ॥
हस्त्यश्वरथगाढानि नगराण्य् अवलोकयन्
तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् ॥
अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम्
तत्रापश्यत् स मेघाभं न्यग्रोधम् ऋषिभिर् वृतम् ॥
समन्ताद् यस्य ताः शाखाः शतयोजनम् आयताः
यस्य हस्तिनम् आदाय महाकायं च कच्छपम्
भक्षार्थं गरुडः शाखाम् आजगाम महाबलः ॥
तस्य तां सहसा शाखां भारेण पतगोत्तमः
सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः ॥
तत्र वैखानसा माषा वालखिल्या मरीचिपाः
अजा बभूवुर् धूम्राश् च संगताः परमर्षयः ॥
तेषां दयार्थं गरुडस् तां शाखां शतयोजनाम्
जगामादाय वेगेन तौ चोभौ गजकच्छपौ ॥
एकपादेन धर्मात्मा भक्षयित्वा तद् आमिषम्
निषादविषयं हत्वा शाखया पतगोत्तमः
प्रहर्षम् अतुलं लेभे मोक्षयित्वा महामुनीन् ॥
स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः
अमृतानयनार्थं वै चकार मतिमान् मतिम् ॥
अयोजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम्
महेन्द्रभवनाद् गुप्तम् आजहारामृतं ततः ॥
तं महर्षिगणैर् जुष्टं सुपर्णकृतलक्षणम्
नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ॥
तं तु गत्वा परं पारं समुद्रस्य नदीपतेः
ददर्शाश्रमम् एकान्ते पुण्ये रम्ये वनान्तरे ॥
तत्र कृष्णाजिनधरं जटावल्कलधारिणम्
ददर्श नियताहारं मारीचं नाम राक्षसम् ॥
स रावणः समागम्य विधिवत् तेन रक्षसा
ततः पश्चाद् इदं वाक्यम् अब्रवीद् वाक्यकोविदः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0