भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.32

3.32.1

ततः शूर्पणखां क्रुद्धां ब्रुवतीं परुषं वचः
अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः ॥

3.32.2

कश् च रामः कथंवीर्यः किंरूपः किंपराक्रमः
किमर्थं दण्डकारण्यं प्रविष्टश् च सुदुश्चरम् ॥

3.32.3

आयुधं किं च रामस्य निहता येन राक्षसाः
खरश् च निहतः संख्ये दूषणस् त्रिशिरास् तथा ॥

3.32.4

इत्य् उक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता
ततो रामं यथान्यायम् आख्यातुम् उपचक्रमे ॥

3.32.5

दीर्घबाहुर् विशालाक्षश् चीरकृष्णाजिनाम्बरः
कन्दर्पसमरूपश् च रामो दशरथात्मजः ॥

3.32.6

शक्रचापनिभं चापं विकृष्य कनकाङ्गदम्
दीप्तान् क्षिपति नाराचान् सर्पान् इव महाविषान् ॥

3.32.7

नाददानं शरान् घोरान् न मुञ्चन्तं महाबलम्
न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे ॥

3.32.8

हन्यमानं तु तत् सैन्यं पश्यामि शरवृष्टिभिः
इन्द्रेणेवोत्तमं सस्यम् आहतं त्व् अश्मवृष्टिभिः ॥

3.32.9

रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश
निहतानि शरैस् तीक्ष्णैस् तेनैकेन पदातिना ॥

3.32.10

अर्धाधिकमुहूर्तेन खरश् च सहदूषणः
ऋषीणाम् अभयं दत्तं कृतक्षेमाश् च दण्डकाः ॥

3.32.11

एका कथंचिन् मुक्ताहं परिभूय महात्मना
स्त्रीवधं शङ्कमानेन रामेण विदितात्मना ॥

3.32.12

भ्राता चास्य महातेजा गुणतस् तुल्यविक्रमः
अनुरक्तश् च भक्तश् च लक्ष्मणो नाम वीर्यवान् ॥

3.32.13

अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली
रामस्य दक्षिणो बाहुर् नित्यं प्राणो बहिश्चरः ॥

3.32.14

रामस्य तु विशालाक्षी धर्मपत्नी यशस्विनी
सीता नाम वरारोहा वैदेही तनुमध्यमा ॥

3.32.15

नैव देवी न गन्धर्वी न यक्षी न च किंनरी
तथारूपा मया नारी दृष्टपूर्वा महीतले ॥

3.32.16

यस्य सीता भवेद् भार्या यं च हृष्टा परिष्वजेत्
अतिजीवेत् स सर्वेषु लोकेष्व् अपि पुरंदरात् ॥

3.32.17

सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि
तवानुरूपा भार्या सा त्वं च तस्यास् तथा पतिः ॥

3.32.18

तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम्
भार्यार्थे तु तवानेतुम् उद्यताहं वराननाम् ॥

3.32.19

तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम्
मन्मथस्य शराणां च त्वं विधेयो भविष्यसि ॥

3.32.20

यदि तस्याम् अभिप्रायो भार्यार्थे तव जायते
शीघ्रम् उद्ध्रियतां पादो जयार्थम् इह दक्षिणः ॥

3.32.21

कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर
वधात् तस्य नृशंसस्य रामस्याश्रमवासिनः ॥

3.32.22

तं शरैर् निशितैर् हत्वा लक्ष्मणं च महारथम्
हतनाथां सुखं सीतां यथावद् उपभोक्ष्यसे ॥

3.32.23

रोचते यदि ते वाक्यं ममैतद् राक्षसेश्वर
क्रियतां निर्विशङ्केन वचनं मम राघव ॥

3.32.24

निशम्य रामेण शरैर् अजिह्मगैर् हताञ् जनस्थानगतान् निशाचरान्
खरं च बुद्ध्वा निहतं च दूषणं त्वम् अद्य कृत्यं प्रतिपत्तुम् अर्हसि ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc