भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.31

3.31.1

ततः शूर्पणखा दीना रावणं लोकरावणम्
अमात्यमध्ये संक्रुद्धा परुषं वाक्यम् अब्रवीत् ॥

3.31.2

प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः
समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे ॥

3.31.3

सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम्
लुब्धं न बहु मन्यन्ते श्मशानाग्निम् इव प्रजाः ॥

3.31.4

स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः
स तु वै सह राज्येन तैश् च कार्यैर् विनश्यति ॥

3.31.5

अयुक्तचारं दुर्दर्शम् अस्वाधीनं नराधिपम्
वर्जयन्ति नरा दूरान् नदीपङ्कम् इव द्विपाः ॥

3.31.6

ये न रक्षन्ति विषयम् अस्वाधीना नराधिपाः
ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ॥

3.31.7

आत्मवद्भिर् विगृह्य त्वं देवगन्धर्वदानवैः
अयुक्तचारश् चपलः कथं राजा भविष्यसि ॥

3.31.8

येषां चारश् च कोशश् च नयश् च जयतां वर
अस्वाधीना नरेन्द्राणां प्राकृतैस् ते जनैः समाः ॥

3.31.9

यस्मात् पश्यन्ति दूरस्थान् सर्वान् अर्थान् नराधिपाः
चारेण तस्माद् उच्यन्ते राजानो दीर्घचक्षुषः ॥

3.31.10

अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर् वृतम्
स्वजनं च जनस्थानं हतं यो नावबुध्यसे ॥

3.31.11

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्
हतान्य् एकेन रामेण खरश् च सहदूषणः ॥

3.31.12

ऋषीणाम् अभयं दत्तं कृतक्षेमाश् च दण्डकाः
धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा ॥

3.31.13

त्वं तु लुब्धः प्रमत्तश् च पराधीनश् च रावण
विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे ॥

3.31.14

तीक्ष्णम् अल्पप्रदातारं प्रमत्तं गर्वितं शठम्
व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् ॥

3.31.15

अतिमानिनम् अग्राह्यम् आत्मसंभावितं नरम्
क्रोधनं व्यसने हन्ति स्वजनो ऽपि नराधिपम् ॥

3.31.16

नानुतिष्ठति कार्याणि भयेषु न बिभेति च
क्षिप्रं राज्याच् च्युतो दीनस् तृणैस् तुल्यो भविष्यति ॥

3.31.17

शुष्ककाष्ठैर् भवेत् कार्यं लोष्टैर् अपि च पांसुभिः
न तु स्थानात् परिभ्रष्टैः कार्यं स्याद् वसुधाधिपैः ॥

3.31.18

उपभुक्तं यथा वासः स्रजो वा मृदिता यथा
एवं राज्यात् परिभ्रष्टः समर्थो ऽपि निरर्थकः ॥

3.31.19

अप्रमत्तश् च यो राजा सर्वज्ञो विजितेन्द्रियः
कृतज्ञो धर्मशीलश् च स राजा तिष्ठते चिरम् ॥

3.31.20

नयनाभ्यां प्रसुप्तो ऽपि जागर्ति नयचक्षुषा
व्यक्तक्रोधप्रसादश् च स राजा पूज्यते जनैः ॥

3.31.21

त्वं तु रावण दुर्बुद्धिर् गुणैर् एतैर् विवर्जितः
यस्य ते ऽविदितश् चारै रक्षसां सुमहान् वधः ॥

3.31.22

परावमन्ता विषयेषु संगतो न देशकालप्रविभागतत्त्ववित्
अयुक्तबुद्धिर् गुणदोषनिश्चये विपन्नराज्यो न चिराद् विपत्स्यते ॥

3.31.23

इति स्वदोषान् परिकीर्तितांस् तया समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः
धनेन दर्पेण बलेन चान्वितो विचिन्तयामास चिरं स रावणः ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc