रामायण (संशोधित पाठ) · अध्याय 3.30
ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश
हतान्य् एकेन रामेण रक्षसां भीमकर्मणाम् ॥
दूषणं च खरं चैव हतं त्रिशिरसं रणे
दृष्ट्वा पुनर् महानादं ननाद जलदोपमा ॥
सा दृष्ट्वा कर्म रामस्य कृतम् अन्यैः सुदुष्करम्
जगाम परमोद्विग्ना लङ्कां रावणपालिताम् ॥
सा ददर्श विमानाग्रे रावणं दीप्ततेजसम्
उपोपविष्टं सचिवैर् मरुद्भिर् इव वासवम् ॥
आसीनं सूर्यसंकाशे काञ्चने परमासने
रुक्मवेदिगतं प्राज्यं ज्वलन्तम् इव पावकम् ॥
देवगन्धर्वभूतानाम् ऋषीणां च महात्मनाम्
अजेयं समरे शूरं व्यात्ताननम् इवान्तकम् ॥
देवासुरविमर्देषु वज्राशनिकृतव्रणम्
ऐरावतविषाणाग्रैर् उत्कृष्टकिणवक्षसम् ॥
विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम्
विशालवक्षसं वीरं राजलक्ष्मणलक्षितम् ॥
स्निग्धवैडूर्यसंकाशं तप्तकाञ्चनकुण्डलम्
सुभुजं शुक्लदशनं महास्यं पर्वतोपमम् ॥
विष्णुचक्रनिपातैश् च शतशो देवसंयुगे
आहताङ्गं समस्तैश् च देवप्रहरणैस् तथा ॥
अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम्
क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम् ॥
उच्छेत्तारं च धर्माणां परदाराभिमर्शनम्
सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा ॥
पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम्
तक्षकस्य प्रियां भार्यां पराजित्य जहार यः ॥
कैलासं पर्वतं गत्वा विजित्य नरवाहनम्
विमानं पुष्पकं तस्य कामगं वै जहार यः ॥
वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम्
विनाशयति यः क्रोधाद् देवोद्यानानि वीर्यवान् ॥
चन्द्रसूर्यौ महाभागाव् उत्तिष्ठन्तौ परंतपौ
निवारयति बाहुभ्यां यः शैलशिखरोपमः ॥
दशवर्षसहस्राणि तपस् तप्त्वा महावने
पुरा स्वयम्भुवे धीरः शिरांस्य् उपजहार यः ॥
देवदानवगन्धर्व पिशाचपतगोरगैः
अभयं यस्य संग्रामे मृत्युतो मानुषाद् ऋते ॥
मन्त्रैर् अभिषुतं पुण्यम् अध्वरेषु द्विजातिभिः
हविर्धानेषु यः सोमम् उपहन्ति महाबलः ॥
आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम्
कर्कशं निरनुक्रोशं प्रजानाम् अहिते रतम्
रावणं सर्वभूतानां सर्वलोकभयावहम् ॥
राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम्
तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम्
राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम् ॥
तम् अब्रवीद् दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूर्छिता
सुदारुणं वाक्यम् अभीतचारिणी महात्मना शूर्पणखा विरूपिता ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0