भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.29

3.29.1

भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः
स्मयमानः खरं वाक्यं संरब्धम् इदम् अब्रवीत् ॥

3.29.2

एतत् ते बलसर्वस्वं दर्शितं राक्षसाधम
शक्तिहीनतरो मत्तो वृथा त्वम् अवगर्जसि ॥

3.29.3

एषा बाणविनिर्भिन्ना गदा भूमितलं गता
अभिधानप्रगल्भस्य तव प्रत्ययघातिनी ॥

3.29.4

यत् त्वयोक्तं विनष्टानाम् इदम् अश्रुप्रमार्जनम्
राक्षसानां करोमीति मिथ्या तद् अपि ते वचः ॥

3.29.5

नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः
प्राणान् अपहरिष्यामि गरुत्मान् अमृतं यथा ॥

3.29.6

अद्य ते भिन्नकण्ठस्य फेनबुद्बुदभूषितम्
विदारितस्य मद्बाणैर् मही पास्यति शोणितम् ॥

3.29.7

पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः
स्वप्स्यसे गां समाश्लिष्य दुर्लभां प्रमदाम् इव ॥

3.29.8

प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने
भविष्यन्त्य् अशरण्यानां शरण्या दण्डका इमे ॥

3.29.9

जनस्थाने हतस्थाने तव राक्षस मच्छरैः
निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥

3.29.10

अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः
बाष्पार्द्रवदना दीना भयाद् अन्यभयावहाः ॥

3.29.11

अद्य शोकरसज्ञास् ता भविष्यन्ति निशाचर
अनुरूपकुलाः पत्न्यो यासां त्वं पतिर् ईदृशः ॥

3.29.12

नृशंसशील क्षुद्रात्मन् नित्यं ब्राह्मणकण्टक
त्वत्कृते शङ्कितैर् अग्नौ मुनिभिः पात्यते हविः ॥

3.29.13

तम् एवम् अभिसंरब्धं ब्रुवाणं राघवं रणे
खरो निर्भर्त्सयामास रोषात् खरतरस्वनः ॥

3.29.14

दृढं खल्व् अवलिप्तो ऽसि भयेष्व् अपि च निर्भयः
वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे ॥

3.29.15

कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये
कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः ॥

3.29.16

एवम् उक्त्वा ततो रामं संरुध्य भ्रुकुटिं ततः
स ददर्श महासालम् अविदूरे निशाचरः ॥

3.29.17

रणे प्रहरणस्यार्थे सर्वतो ह्य् अवलोकयन्
स तम् उत्पाटयामास संदृश्य दशनच्छदम् ॥

3.29.18

तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः
रामम् उद्दिश्य चिक्षेप हतस् त्वम् इति चाब्रवीत् ॥

3.29.19

तम् आपतन्तं बाणौघैश् छित्त्वा रामः प्रतापवान्
रोषम् आहारयत् तीव्रं निहन्तुं समरे खरम् ॥

3.29.20

जातस्वेदस् ततो रामो रोषाद् रक्तान्तलोचनः
निर्बिभेद सहस्रेण बाणानां समरे खरम् ॥

3.29.21

तस्य बाणान्तराद् रक्तं बहु सुस्राव फेनिलम्
गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः ॥

3.29.22

विह्वलः स कृतो बाणैः खरो रामेण संयुगे
मत्तो रुधिरगन्धेन तम् एवाभ्यद्रवद् द्रुतम् ॥

3.29.23

तम् आपतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम्
अपासर्पत् प्रतिपदं किंचित् त्वरितविक्रमः ॥

3.29.24

ततः पावकसंकाशं वधाय समरे शरम्
खरस्य रामो जग्राह ब्रह्मदण्डम् इवापरम् ॥

3.29.25

स तद् दत्तं मघवता सुरराजेन धीमता
संदधे च स धर्मात्मा मुमोच च खरं प्रति ॥

3.29.26

स विमुक्तो महाबाणो निर्घातसमनिःस्वनः
रामेण धनुर् उद्यम्य खरस्योरसि चापतत् ॥

3.29.27

स पपात खरो भूमौ दह्यमानः शराग्निना
रुद्रेणैव विनिर्दग्धः श्वेतारण्ये यथान्धकः ॥

3.29.28

स वृत्र इव वज्रेण फेनेन नमुचिर् यथा
बलो वेन्द्राशनिहतो निपपात हतः खरः ॥

3.29.29

ततो राजर्षयः सर्वे संगताः परमर्षयः
सभाज्य मुदिता रामम् इदं वचनम् अब्रुवन् ॥

3.29.30

एतदर्थं महातेजा महेन्द्रः पाकशासनः
शरभङ्गाश्रमं पुण्यम् आजगाम पुरंदरः ॥

3.29.31

आनीतस् त्वम् इमं देशम् उपायेन महर्षिभिः
एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम् ॥

3.29.32

तद् इदं नः कृतं कार्यं त्वया दशरथात्मज
सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः ॥

3.29.33

एतस्मिन्न् अन्तरे वीरो लक्ष्मणः सह सीतया
गिरिदुर्गाद् विनिष्क्रम्य संविवेशाश्रमं सुखी ॥

3.29.34

ततो रामस् तु विजयी पूज्यमानो महर्षिभिः
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिवादितः ॥

3.29.35

तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc