रामायण (संशोधित पाठ) · अध्याय 3.2
कृतातिथ्यो ऽथ रामस् तु सूर्यस्योदयनं प्रति
आमन्त्र्य स मुनीन् सर्वान् वनम् एवान्वगाहत ॥
नानामृगगणाकीर्णं शार्दूलवृकसेवितम्
ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ॥
निष्कूजनानाशकुनि झिल्लिकागणनादितम्
लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ॥
वनमध्ये तु काकुत्स्थस् तस्मिन् घोरमृगायुते
ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ॥
गभीराक्षं महावक्त्रं विकटं विषमोदरम्
बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ॥
वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम्
त्रासनं सर्वभूतानां व्यादितास्यम् इवान्तकम् ॥
त्रीन् सिंहांश् चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश
सविषाणं वसादिग्धं गजस्य च शिरो महत् ॥
अवसज्यायसे शूले विनदन्तं महास्वनम्
स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् ॥
अभ्यधावत् सुसंक्रुद्धः प्रजाः काल इवान्तकः
स कृत्वा भैरवं नादं चालयन्न् इव मेदिनीम् ॥
अङ्गेनादाय वैदेहीम् अपक्रम्य ततो ऽब्रवीत्
युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ ॥
प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ
कथं तापसयोर् वां च वासः प्रमदया सह ॥
अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ
अहं वनम् इदं दुर्गं विराधो नाम राक्षसः ॥
चरामि सायुधो नित्यम् ऋषिमांसानि भक्षयन्
इयं नारी वरारोहा मम भार्या भविष्यति
युवयोः पापयोश् चाहं पास्यामि रुधिरं मृधे ॥
तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः
श्रुत्वा सगर्वितं वाक्यं संभ्रान्ता जनकात्मजा
सीता प्रावेपतोद्वेगात् प्रवाते कदली यथा ॥
तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम्
अब्रवील् लक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥
पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम्
मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम्
अत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम् ॥
यद् अभिप्रेतम् अस्मासु प्रियं वरवृतं च यत्
कैकेय्यास् तु सुसंवृत्तं क्षिप्रम् अद्यैव लक्ष्मण ॥
या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी
ययाहं सर्वभूतानां हितः प्रस्थापितो वनम्
अद्येदानीं सकामा सा या माता मम मध्यमा ॥
परस्पर्शात् तु वैदेह्या न दुःखतरम् अस्ति मे
पितुर् विनाशात् सौमित्रे स्वराज्यहरणात् तथा ॥
इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते
अब्रवील् लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥
अनाथ इव भूतानां नाथस् त्वं वासवोपमः
मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे ॥
शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः
विराधस्य गतासोर् हि मही पास्यति शोणितम् ॥
राज्यकामे मम क्रोधो भरते यो बभूव ह
तं विराधे विमोक्ष्यामि वज्री वज्रम् इवाचले ॥
मम भुजबलवेगवेगितः पततु शरो ऽस्य महान् महोरसि
व्यपनयतु तनोश् च जीवितं पततु ततश् च महीं विघूर्णितः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0