रामायण (संशोधित पाठ) · अध्याय 3.28
खरं तु विरथं रामो गदापाणिम् अवस्थितम्
मृदुपूर्वं महातेजाः परुषं वाक्यम् अब्रवीत् ॥
गजाश्वरथसम्बाधे बले महति तिष्ठता
कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् ॥
उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत्
त्रयाणाम् अपि लोकानाम् ईश्वरो ऽपि न तिष्ठति ॥
कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर
तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टम् इवागतम् ॥
लोभात् पापानि कुर्वाणः कामाद् वा यो न बुध्यते
भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकाद् इव ॥
वसतो दण्डकारण्ये तापसान् धर्मचारिणः
किं नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस ॥
न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः
ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ॥
अवश्यं लभते कर्ता फलं पापस्य कर्मणः
घोरं पर्यागते काले द्रुमः पुष्पम् इवार्तवम् ॥
नचिरात् प्राप्यते लोके पापानां कर्मणां फलम्
सविषाणाम् इवान्नानां भुक्तानां क्षणदाचर ॥
पापम् आचरतां घोरं लोकस्याप्रियम् इच्छताम्
अहम् आसादितो राजा प्राणान् हन्तुं निशाचर ॥
अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः
विदार्य निपतिष्यन्ति वल्मीकम् इव पन्नगाः ॥
ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः
तान् अद्य निहतः संख्ये ससैन्यो ऽनुगमिष्यसि ॥
अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः
निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा ॥
प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम
अद्य ते पातयिष्यामि शिरस् तालफलं यथा ॥
एवम् उक्तस् तु रामेण क्रुद्धः संरक्तलोचनः
प्रत्युवाच ततो रामं प्रहसन् क्रोधमूर्छितः ॥
प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज
आत्मना कथम् आत्मानम् अप्रशस्यं प्रशंससि ॥
विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः
कथयन्ति न ते किंचित् तेजसा स्वेन गर्विताः ॥
प्राकृतास् त्व् अकृतात्मानो लोके क्षत्रियपांसनाः
निरर्थकं विकत्थन्ते यथा राम विकत्थसे ॥
कुलं व्यपदिशन् वीरः समरे को ऽभिधास्यति
मृत्युकाले हि सम्प्राप्ते स्वयम् अप्रस्तवे स्तवम् ॥
सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम्
सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना ॥
न तु माम् इह तिष्ठन्तं पश्यसि त्वं गदाधरम्
धराधरम् इवाकम्प्यं पर्वतं धातुभिश् चितम् ॥
पर्याप्तो ऽहं गदापाणिर् हन्तुं प्राणान् रणे तव
त्रयाणाम् अपि लोकानां पाशहस्त इवान्तकः ॥
कामं बह्व् अपि वक्तव्यं त्वयि वक्ष्यामि न त्व् अहम्
अस्तं गच्छेद्धि सविता युद्धविघ्नस् ततो भवेत् ॥
चतुर्दश सहस्राणि राक्षसानां हतानि ते
त्वद्विनाशात् करोम्य् अद्य तेषाम् अश्रुप्रमार्जनम् ॥
इत्य् उक्त्वा परमक्रुद्धस् तां गदां परमाङ्गदः
खरश् चिक्षेप रामाय प्रदीप्ताम् अशनिं यथा ॥
खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा
भस्म वृक्षांश् च गुल्मांश् च कृत्वागात् तत्समीपतः ॥
ताम् आपतन्तीं ज्वलितां मृत्युपाशोपमां गदाम्
अन्तरिक्षगतां रामश् चिछेद बहुधा शरैः ॥
सा विशीर्णा शरैर् भिन्ना पपात धरणीतले
गदामन्त्रौषधिबलैर् व्यालीव विनिपातिता ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0