भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.27

3.27.1

निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह
खरस्याप्य् अभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥

3.27.2

स दृष्ट्वा राक्षसं सैन्यम् अविषह्यं महाबलम्
हतम् एकेन रामेण दूषणस् त्रिशिरा अपि ॥

3.27.3

तद् बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः
आससाद खरो रामं नमुचिर् वासवं यथा ॥

3.27.4

विकृष्य बलवच् चापं नाराचान् रक्तभोजनान्
खरश् चिक्षेप रामाय क्रुद्धान् आशीविषान् इव ॥

3.27.5

ज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन्
चचार समरे मार्गाञ् शरै रथगतः खरः ॥

3.27.6

स सर्वाश् च दिशो बाणैः प्रदिशश् च महारथः
पूरयामास तं दृष्ट्वा रामो ऽपि सुमहद् धनुः ॥

3.27.7

स सायकैर् दुर्विषहैः सस्फुलिङ्गैर् इवाग्निभिः
नभश् चकाराविवरं पर्जन्य इव वृष्टिभिः ॥

3.27.8

तद् बभूव शितैर् बाणैः खररामविसर्जितैः
पर्याकाशम् अनाकाशं सर्वतः शरसंकुलम् ॥

3.27.9

शरजालावृतः सूर्यो न तदा स्म प्रकाशते
अन्योन्यवधसंरम्भाद् उभयोः सम्प्रयुध्यतोः ॥

3.27.10

ततो नालीकनाराचैस् तीक्ष्णाग्रैश् च विकर्णिभिः
आजघान रणे रामं तोत्रैर् इव महाद्विपम् ॥

3.27.11

तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्
ददृशुः सर्वभूतानि पाशहस्तम् इवान्तकम् ॥

3.27.12

तं सिंहम् इव विक्रान्तं सिंहविक्रान्तगामिनम्
दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥

3.27.13

ततः सूर्यनिकाशेन रथेन महता खरः
आससाद रणे रामं पतंग इव पावकम् ॥

3.27.14

ततो ऽस्य सशरं चापं मुष्टिदेशे महात्मनः
खरश् चिछेद रामस्य दर्शयन् पाणिलाघवम् ॥

3.27.15

स पुनस् त्व् अपरान् सप्त शरान् आदाय वर्मणि
निजघान रणे क्रुद्धः शक्राशनिसमप्रभान् ॥

3.27.16

ततस् तत् प्रहतं बाणैः खरमुक्तैः सुपर्वभिः
पपात कवचं भूमौ रामस्यादित्यवर्चसः ॥

3.27.17

स शरैर् अर्पितः क्रुद्धः सर्वगात्रेषु राघवः
रराज समरे रामो विधूमो ऽग्निर् इव ज्वलन् ॥

3.27.18

ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः
चकारान्ताय स रिपोः सज्यम् अन्यन् महद् धनुः ॥

3.27.19

सुमहद् वैष्णवं यत् तद् अतिसृष्टं महर्षिणा
वरं तद् धनुर् उद्यम्य खरं समभिधावत ॥

3.27.20

ततः कनकपुङ्खैस् तु शरैः संनतपर्वभिः
चिछेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ॥

3.27.21

स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः
जगाम धरणीं सूर्यो देवतानाम् इवाज्ञया ॥

3.27.22

तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः
विव्याध हृदि मर्मज्ञो मातंगम् इव तोमरैः ॥

3.27.23

स रामो बहुभिर् बाणैः खरकार्मुकनिःसृतैः
विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥

3.27.24

स धनुर् धन्विनां श्रेष्ठः प्रगृह्य परमाहवे
मुमोच परमेष्वासः षट् शरान् अभिलक्षितान् ॥

3.27.25

शिरस्य् एकेन बाणेन द्वाभ्यां बाह्वोर् अथार्पयत्
त्रिभिश् चन्द्रार्धवक्त्रैश् च वक्षस्य् अभिजघान ह ॥

3.27.26

ततः पश्चान् महातेजा नाराचान् भास्करोपमान्
जिघांसू राक्षसं क्रुद्धस् त्रयोदश शिलाशितान् ॥

3.27.27

ततो ऽस्य युगम् एकेन चतुर्भिश् चतुरो हयान्
षष्ठेन च शिरः संख्ये चिछेद खरसारथेः ॥

3.27.28*

त्रिभिस् त्रिवेणुं बलवान् द्वाभ्याम् अक्षं महाबलः
द्वादशेन तु बाणेन खरस्य सशरं धनुः ॥

3.27.28*

छित्त्वा वज्रनिकाशेन राघवः प्रहसन्न् इव
त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥

3.27.29

प्रभग्नधन्वा विरथो हताश्वो हतसारथिः
गदापाणिर् अवप्लुत्य तस्थौ भूमौ खरस् तदा ॥

3.27.30

तत् कर्म रामस्य महारथस्य समेत्य देवाश् च महर्षयश् च
अपूजयन् प्राञ्जलयः प्रहृष्टास् तदा विमानाग्रगताः समेताः ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc