भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.26

3.26.1

खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः
राक्षसस् त्रिशिरा नाम संनिपत्येदम् अब्रवीत् ॥

3.26.2

मां नियोजय विक्रान्त संनिवर्तस्व साहसात्
पश्य रामं महाबाहुं संयुगे विनिपातितम् ॥

3.26.3

प्रतिजानामि ते सत्यम् आयुधं चाहम् आलभे
यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् ॥

3.26.4

अहं वास्य रणे मृत्युर् एष वा समरे मम
विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव ॥

3.26.5

प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि
मयि वा निहते रामं संयुगायोपयास्यसि ॥

3.26.6

खरस् त्रिशिरसा तेन मृत्युलोभात् प्रसादितः
गच्छ युध्येत्य् अनुज्ञातो राघवाभिमुखो ययौ ॥

3.26.7

त्रिशिराश् च रथेनैव वाजियुक्तेन भास्वता
अभ्यद्रवद् रणे रामं त्रिशृङ्ग इव पर्वतः ॥

3.26.8

शरधारासमूहान् स महामेघ इवोत्सृजन्
व्यसृजत् सदृशं नादं जलार्द्रस्येव दुन्दुभेः ॥

3.26.9

आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः
धनुषा प्रतिजग्राह विधुन्वन् सायकाञ् शितान् ॥

3.26.10

स सम्प्रहारस् तुमुलो रामत्रिशिरसोर् महान्
बभूवातीव बलिनोः सिंहकुञ्जरयोर् इव ॥

3.26.11

ततस् त्रिशिरसा बाणैर् ललाटे ताडितस् त्रिभिः
अमर्षी कुपितो रामः संरब्धम् इदम् अब्रवीत् ॥

3.26.12

अहो विक्रमशूरस्य राक्षसस्येदृशं बलम्
पुष्पैर् इव शरैर् यस्य ललाटे ऽस्मि परिक्षतः
ममापि प्रतिगृह्णीष्व शरांश् चापगुणच्युतान् ॥

3.26.13

एवम् उक्त्वा तु संरब्धः शरान् आशीविषोपमान्
त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश ॥

3.26.14

चतुर्भिस् तुरगान् अस्य शरैः संनतपर्वभिः
न्यपातयत तेजस्वी चतुरस् तस्य वाजिनः ॥

3.26.15

अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत्
रामश् चिछेद बाणेन ध्वजं चास्य समुच्छ्रितम् ॥

3.26.16

ततो हतरथात् तस्माद् उत्पतन्तं निशाचरम्
बिभेद रामस् तं बाणैर् हृदये सो ऽभवज् जडः ॥

3.26.17

सायकैश् चाप्रमेयात्मा सामर्षस् तस्य रक्षसः
शिरांस्य् अपातयत् त्रीणि वेगवद्भिस् त्रिभिः शतैः ॥

3.26.18

स भूमौ शोणितोद्गारी रामबाणाभिपीडितः
न्यपतत् पतितैः पूर्वं स्वशिरोभिर् निशाचरः ॥

3.26.19

हतशेषास् ततो भग्ना राक्षसाः खरसंश्रयाः
द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव ॥

3.26.20

तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम्
रामम् एवाभिदुद्राव राहुश् चन्द्रमसं यथा ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc