रामायण (संशोधित पाठ) · अध्याय 3.25
तद् द्रुमाणां शिलानां च वर्षं प्राणहरं महत्
प्रतिजग्राह धर्मात्मा राघवस् तीक्ष्णसायकैः ॥
प्रतिगृह्य च तद् वरं निमीलित इवर्षभः
रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् ॥
ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा
शरैर् अभ्यकिरत् सैन्यं सर्वतः सहदूषणम् ॥
ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः
जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् ॥
वेष्टितं काञ्चनैः पट्टैर् देवसैन्याभिमर्दनम्
आयसैः शङ्कुभिस् तीक्ष्णैः कीर्णं परवसोक्षितम् ॥
वज्राशनिसमस्पर्शं परगोपुरदारणम्
तं महोरगसंकाशं प्रगृह्य परिघं रणे
दूषणो ऽभ्यपतद् रामं क्रूरकर्मा निशाचरः ॥
तस्याभिपतमानस्य दूषणस्य स राघवः
द्वाभ्यां शराभ्यां चिछेद सहस्ताभरणौ भुजौ ॥
भ्रष्टस् तस्य महाकायः पपात रणमूर्धनि
परिघश् छिन्नहस्तस्य शक्रध्वज इवाग्रतः ॥
स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः
विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ॥
दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे
साधु साध्व् इति काकुत्स्थं सर्वभूतान्य् अपूजयन् ॥
एतस्मिन्न् अन्तरे क्रुद्धास् त्रयः सेनाग्रयायिनः
संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः
महाकपालः स्थूलाक्षः प्रमाथी च महाबलः ॥
महाकपालो विपुलं शूलम् उद्यम्य राक्षसः
स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् ॥
दृष्ट्वैवापततस् तांस् तु राघवः सायकैः शितैः
तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तान् अतिथीन् इव ॥
महाकपालस्य शिरश् चिछेद रघुनन्दनः
असंख्येयैस् तु बाणौघैः प्रममाथ प्रमाथिनम् ॥
स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः
स पपात हतो भूमौ विटपीव महाद्रुमः ॥
ततः पावकसंकाशैर् हेमवज्रविभूषितैः
जघनशेषं तेजस्वी तस्य सैन्यस्य सायकैः ॥
ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः
निजघ्नुस् तानि रक्षांसि वज्रा इव महाद्रुमान् ॥
रक्षसां तु शतं रामः शतेनैकेन कर्णिना
सहस्रं च सहस्रेण जघान रणमूर्धनि ॥
तैर् भिन्नवर्माभरणाश् छिन्नभिन्नशरासनाः
निपेतुः शोणितादिग्धा धरण्यां रजनीचराः ॥
तैर् मुक्तकेशैः समरे पतितैः शोणितोक्षितैः
आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैर् इव ॥
क्षणेन तु महाघोरं वनं निहतराक्षसम्
बभूव निरयप्रख्यं मांसशोणितकर्दमम् ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्
हतान्य् एकेन रामेण मानुषेण पदातिना ॥
तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः
राक्षसस् त्रिशिराश् चैव रामश् च रिपुसूदनः ॥
ततस् तु तद् भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा
रथेन रामं महता खरस् ततः समाससादेन्द्र इवोद्यताशनिः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0