भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.24

3.24.1

अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम्
ददर्शाश्रमम् आगम्य खरः सह पुरःसरैः ॥

3.24.2

तं दृष्ट्वा सगुणं चापम् उद्यम्य खरनिःस्वनम्
रामस्याभिमुखं सूतं चोद्यताम् इत्य् अचोदयत् ॥

3.24.3

स खरस्याज्ञया सूतस् तुरगान् समचोदयत्
यत्र रामो महाबाहुर् एको धुन्वन् धनुः स्थितः ॥

3.24.4

तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः
नर्दमाना महानादं सचिवाः पर्यवारयन् ॥

3.24.5

स तेषां यातुधानानां मध्ये रतो गतः खरः
बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः ॥

3.24.6

ततस् तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः
रामं नानाविधैः शस्त्रैर् अभ्यवर्षन्त दुर्जयम् ॥

3.24.7

मुद्गरैर् आयसैः शूलैः प्रासैः खड्गैः परश्वधैः
राक्षसाः समरे रामं निजघ्नू रोषतत्पराः ॥

3.24.8

ते बलाहकसंकाशा महानादा महाबलाः
अभ्यधावन्त काकुत्स्थं रामं युद्धे जिघांसवः ॥

3.24.9

ते रामे शरवर्षाणि व्यसृजन् रक्षसां गुणाः
शैलेन्द्रम् इव धाराभिर् वर्षमाणा बलाहकाः ॥

3.24.10

स तैः परिवृतो घोरै राघवो रक्षसां गणैः
तिथिष्व् इव महादेवो वृतः पारिषदां गणैः ॥

3.24.11

तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः
प्रतिजग्राह विशिखैर् नद्योघान् इव सागरः ॥

3.24.12

स तैः प्रहरणैर् घोरैर् भिन्नगात्रो न विव्यथे
रामः प्रदीप्तैर् बहुभिर् वज्रैर् इव महाचलः ॥

3.24.13

स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः
बभूव रामः संध्याभ्रैर् दिवाकर इवावृतः ॥

3.24.14

विषेदुर् देवगन्धर्वाः सिद्धाश् च परमर्षयः
एकं सहस्रैर् बहुभिस् तदा दृष्ट्वा समावृतम् ॥

3.24.15

ततो रामः सुसंक्रुद्धो मण्डलीकृतकार्मुकः
ससर्ज निशितान् बाणाञ् शतशो ऽथ सहस्रशः ॥

3.24.16

दुरावारान् दुर्विषहान् कालपाशोपमान् रणे
मुमोच लीलया रामः कङ्कपत्त्रान् अजिह्मगान् ॥

3.24.17

ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया
आददू रक्षसां प्राणान् पाशाः कालकृता इव ॥

3.24.18

भित्त्वा राक्षसदेहांस् तांस् ते शरा रुधिराप्लुताः
अन्तरिक्षगता रेजुर् दीप्ताग्निसमतेजसः ॥

3.24.19

असंख्येयास् तु रामस्य सायकाश् चापमण्डलात्
विनिष्पेतुर् अतीवोग्रा रक्षःप्राणापहारिणः ॥

3.24.20

तैर् धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च
बहून् सहस्ताभरणान् ऊरून् करिकरोपमान् ॥

3.24.21

ततो नालीकनाराचैस् तीक्ष्णाग्रैश् च विकर्णिभिः
भीमम् आर्तस्वरं चक्रुर् भिद्यमाना निशाचराः ॥

3.24.22

तत् सैन्यं निशितैर् बाणैर् अर्दितं मर्मभेदिभिः
रामेण न सुखं लेभे शुष्कं वनम् इवाग्निना ॥

3.24.23

केचिद् भीमबलाः शूराः शूलान् खड्गान् परश्वधान्
चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः ॥

3.24.24

तानि बाणैर् महाबाहुः शस्त्राण्य् आवार्य राघवः
जहार समरे प्राणांश् चिछेद च शिरोधरान् ॥

3.24.25

अवशिष्टाश् च ये तत्र विषण्णाश् च निशाचराः
खरम् एवाभ्यधावन्त शरणार्थं शरार्दिताः ॥

3.24.26

तान् सर्वान् पुनर् आदाय समाश्वास्य च दूषणः
अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रम् इवान्तकः ॥

3.24.27

निवृत्तास् तु पुनः सर्वे दूषणाश्रयनिर्भयाः
रामम् एवाभ्यधावन्त सालतालशिलायुधाः ॥

3.24.28

तद् बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्
रामस्यास्य महाघोरं पुनस् तेषां च रक्षसाम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc