भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.23

3.23.1

आश्रमं प्रतियाते तु खरे खरपराक्रमे
तान् एवौत्पातिकान् रामः सह भ्रात्रा ददर्श ह ॥

3.23.2

तान् उत्पातान् महाघोरान् उत्थितान् रोमहर्षणान्
प्रजानाम् अहितान् दृष्ट्वा वाक्यं लक्ष्मणम् अब्रवीत् ॥

3.23.3

इमान् पश्य महाबाहो सर्वभूतापहारिणः
समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान् ॥

3.23.4

अमी रुधिरधारास् तु विसृजन्तः खरस्वनान्
व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः ॥

3.23.5

सधूमाश् च शराः सर्वे मम युद्धाभिनन्दिनः
रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण ॥

3.23.6

यादृशा इह कूजन्ति पक्षिणो वनचारिणः
अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च ॥

3.23.7

सम्प्रहारस् तु सुमहान् भविष्यति न संशयः
अयम् आख्याति मे बाहुः स्फुरमाणो मुहुर् मुहुः ॥

3.23.8

संनिकर्षे तु नः शूर जयं शत्रोः पराजयम्
सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते ॥

3.23.9

उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मणः
निष्प्रभं वदनं तेषां भवत्य् आयुःपरिक्षयः ॥

3.23.10

अनागतविधानं तु कर्तव्यं शुभम् इच्छता
आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥

3.23.11

तस्माद् गृहीत्वा वैदेहीं शरपाणिर् धनुर्धरः
गुहाम् आश्रय शैलस्य दुर्गां पादपसंकुलाम् ॥

3.23.12

प्रतिकूलितुम् इच्छामि न हि वाक्यम् इदं त्वया
शापितो मम पादाभ्यां गम्यतां वत्स माचिरम् ॥

3.23.13

एवम् उक्तस् तु रामेण लक्ष्मणः सह सीतया
शरान् आदाय चापं च गुहां दुर्गां समाश्रयत् ॥

3.23.14

तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया
हन्त निर्युक्तम् इत्य् उक्त्वा रामः कवचम् आविशत् ॥

3.23.15

स तेनाग्निनिकाशेन कवचेन विभूषितः
बभूव रामस् तिमिरे विधूमो ऽग्निर् इवोत्थितः ॥

3.23.16

स चापम् उद्यम्य महच् छरान् आदाय वीर्यवान्
बभूवावस्थितस् तत्र ज्यास्वनैः पूरयन् दिशः ॥

3.23.17

ततो देवाः सगन्धर्वाः सिद्धाश् च सह चारणैः
ऊचुः परमसंत्रस्ता गुह्यकाश् च परस्परम् ॥

3.23.18

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्
एकश् च रामो धर्मात्मा कथं युद्धं भविष्यति ॥

3.23.19

ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम्
अनीकं यातुधानानां समन्तात् प्रत्यदृश्यत ॥

3.23.20

सिंहनादं विसृजताम् अन्योन्यम् अभिगर्जताम्
चापानि विस्फारयतां जृम्भतां चाप्य् अभीक्ष्णशः ॥

3.23.21

विप्रघुष्टस्वनानां च दुन्दुभींश् चापि निघ्नताम्
तेषां सुतुमुलः शब्दः पूरयामास तद् वनम् ॥

3.23.22

तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः
दुद्रुवुर् यत्र निःशब्दं पृष्ठतो नावलोकयन् ॥

3.23.23

तत् त्व् अनीकं महावेगं रामं समुपसर्पत
धृतनानाप्रहरणं गम्भीरं सागरोपमम् ॥

3.23.24

रामो ऽपि चारयंश् चक्षुः सर्वतो रणपण्डितः
ददर्श खरसैन्यं तद् युद्धाभिमुखम् उद्यतम् ॥

3.23.25

वितत्य च धनुर् भीमं तूण्याश् चोद्धृत्य सायकान्
क्रोधम् आहारयत् तीव्रं वधार्थं सर्वरक्षसाम् ॥

3.23.26

दुष्प्रेक्ष्यः सो ऽभवत् क्रुद्धो युगान्ताग्निर् इव ज्वलन्
तं दृष्ट्वा तेजसाविष्टं प्राव्यथन् वनदेवताः ॥

3.23.27

तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा
दक्षस्येव क्रतुं हन्तुम् उद्यतस्य पिनाकिनः ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc