रामायण (संशोधित पाठ) · अध्याय 3.22
तत् प्रयातं बलं घोरम् अशिवं शोणितोदकम्
अभ्यवर्षन् महामेघस् तुमुलो गर्दभारुणः ॥
निपेतुस् तुरगास् तस्य रथयुक्ता महाजवाः
समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥
श्यामं रुधिरपर्यन्तं बभूव परिवेषणम्
अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम् ॥
ततो ध्वजम् उपागम्य हेमदण्डं समुच्छ्रितम्
समाक्रम्य महाकायस् तस्थौ गृध्रः सुदारुणः ॥
जनस्थानसमीपे च समाक्रम्य खरस्वनाः
विस्वरान् विविधांश् चक्रुर् मांसादा मृगपक्षिणः ॥
व्याजह्रुश् च प्रदीप्तायां दिशि वै भैरवस्वनम्
अशिवं यातुधानानां शिवा घोरा महास्वनाः ॥
प्रभिन्नगिरिसंकाशास् तोयशोषितधारिणः
आकाशं तद् अनाकाशं चक्रुर् भीमा बलाहकाः ॥
बभूव तिमिरं घोरम् उद्धतं रोमहर्षणम्
दिशो वा विदिशो वापि सुव्यक्तं न चकाशिरे ॥
क्षतजार्द्रसवर्णाभा संध्याकालं विना बभौ
खरस्याभिमुखं नेदुस् तदा घोरा मृगाः खगाः ॥
नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः
नेदुर् बलस्याभिमुखं ज्वालोद्गारिभिर् आननैः ॥
कबन्धः परिघाभासो दृश्यते भास्करान्तिके
जग्राह सूर्यं स्वर्भानुर् अपर्वणि महाग्रहः ॥
प्रवाति मारुतः शीघ्रं निष्प्रभो ऽभूद् दिवाकरः
उत्पेतुश् च विना रात्रिं ताराः खद्योतसप्रभाः ॥
संलीनमीनविहगा नलिन्यः पुष्पपङ्कजाः
तस्मिन् क्षणे बभूवुश् च विना पुष्पफलैर् द्रुमाः ॥
उद्धूतश् च विना वातं रेणुर् जलधरारुणः
वीचीकूचीति वाश्यन्तो बभूवुस् तत्र सारिकाः ॥
उल्काश् चापि सनिर्घोषा निपेतुर् घोरदर्शनाः
प्रचचाल मही चापि सशैलवनकानना ॥
खरस्य च रथस्थस्य नर्दमानस्य धीमतः
प्राकम्पत भुजः सव्यः खरश् चास्यावसज्जत ॥
सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः
ललाटे च रुजा जाता न च मोहान् न्यवर्तत ॥
तान् समीक्ष्य महोत्पातान् उत्थितान् रोमहर्षणान्
अब्रवीद् राक्षसान् सर्वान् प्रहसन् स खरस् तदा ॥
महोत्पातान् इमान् सर्वान् उत्थितान् घोरदर्शनान्
न चिन्तयाम्य् अहं वीर्याद् बलवान् दुर्बलान् इव ॥
तारा अपि शरैस् तीक्ष्णैः पातयेयं नभस्तलात्
मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्य् अहम् ॥
राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम्
अहत्वा सायकैस् तीक्ष्णैर् नोपावर्तितुम् उत्सहे ॥
सकामा भगिनी मे ऽस्तु पीत्वा तु रुधिरं तयोः
यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः ॥
न क्वचित् प्राप्तपूर्वो मे संयुगेषु पराजयः
युष्माकम् एतत् प्रत्यक्षं नानृतं कथयाम्य् अहम् ॥
देवराजम् अपि क्रुद्धो मत्तैरावतयायिनम्
वज्रहस्तं रणे हन्यां किं पुनस् तौ च मानुषौ ॥
सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः
प्रहर्षम् अतुलं लेभे मृत्युपाशावपाशिता ॥
समेयुश् च महात्मानो युद्धदर्शनकाङ्क्षिणः
ऋषयो देवगन्धर्वाः सिद्धाश् च सह चारणैः ॥
समेत्य चोचुः सहितास् ते ऽन्योन्यं पुण्यकर्मणः
स्वस्ति गोब्राह्मणेभ्यो ऽस्तु लोकानां ये च संमताः ॥
जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्
चक्रहस्तो यथा युद्धे सर्वान् असुरपुंगवान् ॥
एतच् चान्यच् च बहुशो ब्रुवाणाः परमर्षयः
ददृशुर् वाहिनीं तेषां राक्षसानां गतायुषाम् ॥
रथेन तु खरो वेगात् सैन्यस्याग्राद् विनिःसृतः
तं दृष्ट्वा राक्षसं भूयो राक्षसाश् च विनिःसृताः ॥
श्येनगामी पृथुग्रीवो यज्ञशत्रुर् विहंगमः
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥
मेघमाली महामाली सर्पास्यो रुधिराशनः
द्वादशैते महावीर्याः प्रतस्थुर् अभितः खरम् ॥
महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास् तथा
चत्वार एते सेनाग्र्या दूषणं पृष्ठतो ऽन्वयुः ॥
सा भीमवेगा समराभिकामा सुदारुणा राक्षसवीरसेना
तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणाम् इव चन्द्रसूर्यौ ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0