रामायण (संशोधित पाठ) · अध्याय 3.21
एवम् आधर्षितः शूरः शूर्पणख्या खरस् तदा
उवाच रक्षसां मध्ये खरः खरतरं वचः ॥
तवापमानप्रभवः क्रोधो ऽयम् अतुलो मम
न शक्यते धारयितुं लवणाम्भ इवोत्थितम् ॥
न रामं गणये वीर्यान् मानुषं क्षीणजीवितम्
आत्मा दुश्चरितैः प्राणान् हतो यो ऽद्य विमोक्ष्यति ॥
बाष्पः संह्रियताम् एष सम्भ्रमश् च विमुच्यताम्
अहं रामं सह भ्रात्रा नयामि यमसादनम् ॥
परश्वधहतस्याद्य मन्दप्राणस्य भूतले
रामस्य रुधिरं रक्तम् उष्णं पास्यसि राक्षसि ॥
सा प्रहृष्टा वचः श्रुत्वा खरस्य वदनाच् च्युतम्
प्रशशंस पुनर् मौर्ख्याद् भ्रातरं रक्षसां वरम् ॥
तया परुषितः पूर्वं पुनर् एव प्रशंसितः
अब्रवीद् दूषणं नाम खरः सेनापतिं तदा ॥
चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम्
रक्षसां भीमवेगानां समरेष्व् अनिवर्तिनाम् ॥
नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम्
लोकहिंसाविहाराणां बलिनाम् उग्रतेजसाम् ॥
तेषां शार्दूलदर्पाणां महास्यानां महौजसाम्
सर्वोद्योगम् उदीर्णानां रक्षसां सौम्य कारय ॥
उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च
शरांश् च चित्रान् खड्गांश् च शक्तीश् च विविधाः शिताः ॥
अग्रे निर्यातुम् इच्छामि पौलस्त्यानां महात्मनाम्
वधार्थं दुर्विनीतस्य रामस्य रणकोविदः ॥
इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम्
सदश्वैः शबलैर् युक्तम् आचचक्षे ऽथ दूषणः ॥
तं मेरुशिखराकारं तप्तकाञ्चनभूषणम्
हेमचक्रम् असंबाधं वैदूर्यमयकूबरम् ॥
मत्स्यैः पुष्पैर् द्रुमैः शैलैश् चन्द्रसूर्यैश् च काञ्चनैः
माङ्गल्यैः पक्षिसंघैश् च ताराभिश् च समावृतम् ॥
ध्वजनिस्त्रिंशसम्पन्नं किङ्किणीकविभूषितम्
सदश्वयुक्तं सो ऽमर्षाद् आरुरोह रथं खरः ॥
निशाम्य तं रथगतं राक्षसा भीमविक्रमाः
तस्थुः संपरिवार्यैनं दूषणं च महाबलम् ॥
खरस् तु तान् महेष्वासान् घोरचर्मायुधध्वजान्
निर्यातेत्य् अब्रवीद् दृष्ट्वा रथस्थः सर्वराक्षसान् ॥
ततस् तद् राक्षसं सैन्यं घोरचर्मायुधध्वजम्
निर्जगाम जनस्थानान् महानादं महाजवम् ॥
मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश् च परश्वधैः
खड्गैश् चक्रैश् च हस्तस्थैर् भ्राजमानैश् च तोमरैः ॥
शक्तिभिः परिघैर् घोरैर् अतिमात्रैश् च कार्मुकैः
गदासिमुसलैर् वज्रैर् गृहीतैर् भीमदर्शनैः ॥
राक्षसानां सुघोराणां सहस्राणि चतुर्दश
निर्यातानि जनस्थानात् खरचित्तानुवर्तिनाम् ॥
तांस् त्व् अभिद्रवतो दृष्ट्वा राक्षसान् भीमविक्रमान्
खरस्यापि रथः किंचिज् जगाम तदनन्तरम् ॥
ततस् ताञ् शबलान् अश्वांस् तप्तकाञ्चनभूषितान्
खरस्य मतम् आज्ञाय सारथिः समचोदयत् ॥
स चोदितो रथः शीघ्रं खरस्य रिपुघातिनः
शब्देनापूरयाम् आस दिशः प्रतिदिशस् तथा ॥
प्रवृद्धमन्युस् तु खरः खरस्वनो रिपोर् वधार्थं त्वरितो यथान्तकः
अचूचुदत् सारथिम् उन्नदन् पुनर् महाबलो मेघ इवाश्मवर्षवान् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0