रामायण (संशोधित पाठ) · अध्याय 3.20
स पुनः पतितां दृष्ट्वा क्रोधाच् छूर्पणखां खरः
उवाच व्यक्तया वाचा ताम् अनर्थार्थम् आगताम् ॥
मया त्व् इदानीं शूरास् ते राक्षसा रुधिराशनाः
त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ॥
भक्ताश् चैवानुरक्ताश् च हिताश् च मम नित्यशः
घ्नन्तो ऽपि न निहन्तव्या न न कुर्युर् वचो मम ॥
किम् एतच् छ्रोतुम् इच्छामि कारणं यत्कृते पुनः
हा नाथेति विनर्दन्ती सर्पवद् वेष्टसे क्षितौ ॥
अनाथवद् विलपसि किं नु नाथे मयि स्थिते
उत्तिष्ठोत्तिष्ठ मा भैषीर् वैक्लव्यं त्यज्यताम् इह ॥
इत्य् एवम् उक्ता दुर्धर्षा खरेण परिसान्त्विता
विमृज्य नयने सास्रे खरं भ्रातरम् अब्रवीत् ॥
प्रेषिताश् च त्वया शूरा राक्षसास् ते चतुर्दश
निहन्तुं राघवं घोरा मत्प्रियार्थं सलक्ष्मणम् ॥
ते तु रामेण सामर्षाः शूलपट्टिशपाणयः
समरे निहताः सर्वे सायकैर् मर्मभेदिभिः ॥
तान् भूमौ पतितान् दृष्ट्वा क्षणेनैव महाबलान्
रामस्य च महत् कर्म महांस् त्रासो ऽभवन् मम ॥
सास्मि भीता समुद्विग्ना विषण्णा च निशाचर
शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी ॥
विषादनक्राध्युषिते परित्रासोर्मिमालिनि
किं मां न त्रायसे मग्नां विपुले शोकसागरे ॥
एते च निहता भूमौ रामेण निशितैः शरैः
ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः ॥
मयि ते यद्य् अनुक्रोशो यदि रक्षःसु तेषु च
रामेण यदि शक्तिस् ते तेजो वास्ति निशाचर
दण्डकारण्यनिलयं जहि राक्षसकण्टकम् ॥
यदि रामं ममामित्रम् अद्य त्वं न वधिष्यसि
तव चैवाग्रतः प्राणांस् त्यक्ष्यामि निरपत्रपा ॥
बुद्ध्याहम् अनुपश्यामि न त्वं रामस्य संयुगे
स्थातुं प्रतिमुखे शक्तः सचापस्य महारणे ॥
शूरमानी न शूरस् त्वं मिथ्यारोपितविक्रमः
मानुषौ यन् न शक्नोषि हन्तुं तौ रामलक्ष्मणौ ॥
अपयाहि जनस्थानात् त्वरितः सहबान्धवः
निःसत्त्वस्याल्पवीर्यस्य वासस् ते कीदृशस् त्व् इह ॥
रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि
स हि तेजःसमायुक्तो रामो दशरथात्मजः
भ्राता चास्य महावीर्यो येन चास्मि विरूपिता ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0