भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.19

3.19.1

अतः शूर्पणखा घोरा राघवाश्रमम् आगता
रक्षसाम् आचचक्षे तौ भ्रातरौ सह सीतया ॥

3.19.2

ते रामं पर्णशालायाम् उपविष्टं महाबलम्
ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च ॥

3.19.3

तान् दृष्ट्वा राघवः श्रीमान् आगतां तां च राक्षसीम्
अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ॥

3.19.4

मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः
इमान् अस्या वधिष्यामि पदवीम् आगतान् इह ॥

3.19.5

वाक्यम् एतत् ततः श्रुत्वा रामस्य विदितात्मनः
तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ॥

3.19.6

राघवो ऽपि महच् चापं चामीकरविभूषितम्
चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ॥

3.19.7

पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ
प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् ॥

3.19.8

फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ
वसन्तौ दण्डकारण्ये किमर्थम् उपहिंसथ ॥

3.19.9

युष्मान् पापात्मकान् हन्तुं विप्रकारान् महावने
ऋषीणां तु नियोगेन प्राप्तो ऽहं सशरासनः ॥

3.19.10

तिष्ठतैवात्र संतुष्टा नोपसर्पितुम् अर्हथ
यदि प्राणैर् इहार्थो वो निवर्तध्वं निशाचराः ॥

3.19.11

तस्य तद्वचनं श्रुत्वा राक्षसास् ते चतुर्दश
ऊचुर् वाचं सुसंक्रुद्धा ब्रह्मघ्नाः शूलपाणयः ॥

3.19.12

संरक्तनयना घोरा रामं रक्तान्तलोचनम्
परुषामधुराभाषं हृष्टा दृष्टपराक्रमम् ॥

3.19.13

क्रोधम् उत्पाद्य नो भर्तुः खरस्य सुमहात्मनः
त्वम् एव हास्यसे प्राणान् अद्यास्माभिर् हतो युधि ॥

3.19.14

का हि ते शक्तिर् एकस्य बहूनां रणमूर्धनि
अस्माकम् अग्रतः स्थातुं किं पुनर् योद्धुम् आहवे ॥

3.19.15

एभिर् बाहुप्रयुक्तैर् नः परिघैः शूलपट्टिशैः
प्राणांस् त्यक्ष्यसि वीर्यं च धनुश् च करपीडितम् ॥

3.19.16

इत्य् एवम् उक्त्वा संरब्धा राक्षसास् ते चतुर्दश
उद्यतायुधनिस्त्रिंशा रामम् एवाभिदुद्रुवुः
चिक्षिपुस् तानि शूलानि राघवं प्रति दुर्जयम् ॥

3.19.17

तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश
तावद्भिर् एव चिछेद शरैः काञ्चनभूषणैः ॥

3.19.18

ततः पश्चान् महातेजा नाराचान् सूर्यसंनिभान्
जग्राह परमक्रुद्धश् चतुर्दश शिलाशितान् ॥

3.19.19

गृहीत्वा धनुर् आयम्य लक्ष्यान् उद्दिश्य राक्षसान्
मुमोच राघवो बाणान् वज्रान् इव शतक्रतुः ॥

3.19.20

रुक्मपुङ्खाश् च विशिखाः प्रदीप्ता हेमभूषणाः
अन्तरिक्षे महोल्कानां बभूवुस् तुल्यवर्चसः ॥

3.19.21

ते भित्त्वा रक्षसां वेगाद् वक्षांसि रुधिराप्लुताः
विनिष्पेतुस् तदा भूमौ न्यमज्जन्ताशनिस्वनाः ॥

3.19.22

ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः
निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः ॥

3.19.23

तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोधमूर्छिता
परित्रस्ता पुनस् तत्र व्यसृजद् भैरवं रवम् ॥

3.19.24

सा नदन्ती महानादं जवाच् छूर्पणखा पुनः
उपगम्य खरं सा तु किंचित् संशुष्कशोणिता
पपात पुनर् एवार्ता सनिर्यासेव वल्लरी ॥

3.19.25

निपातितान् प्रेक्ष्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस् ततः
वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगिनी खरस्य सा ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc