भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.1

3.1.1

प्रविश्य तु महारण्यं दण्डकारण्यम् आत्मवान्
ददर्श रामो दुर्धर्षस् तापसाश्रममण्डलम् ॥

3.1.2

कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्
यथा प्रदीप्तं दुर्धर्षं गगने सूर्यमण्डलम् ॥

3.1.3

शरण्यं सर्वभूतानां सुसंमृष्टाजिरं सदा
पूजितं चोपनृत्तं च नित्यम् अप्सरसां गणैः ॥

3.1.4

विशालैर् अग्निशरणैः स्रुग्भाण्डैर् अजिनैः कुशैः
समिद्भिस् तोयकलशैः फलमूलैश् च शोभितम् ॥

3.1.5

आरण्यैश् च महावृक्षैः पुण्यैः स्वादुफलैर् वृतम्
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् ॥

3.1.6

पुष्पैर् वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया
फलमूलाशनैर् दान्तैश् चीरकृष्णाजिनाम्बरैः ॥

3.1.7

सूर्यवैश्वानराभैश् च पुराणैर् मुनिभिर् वृतम्
पुण्यैश् च नियताहारैः शोभितं परमर्षिभिः ॥

3.1.8

तद् ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्
ब्रह्मविद्भिर् महाभागैर् ब्राह्मणैर् उपशोभितम् ॥

3.1.9

तद् दृष्ट्वा राघवः श्रीमांस् तापसाश्रममण्डलम्
अभ्यगच्छन् महातेजा विज्यं कृत्वा महद् धनुः ॥

3.1.10

दिव्यज्ञानोपपन्नास् ते रामं दृष्ट्वा महर्षयः
अभ्यगच्छंस् तदा प्रीता वैदेहीं च यशस्विनीम् ॥

3.1.11

ते तं सोमम् इवोद्यन्तं दृष्ट्वा वै धर्मचारिणः
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः ॥

3.1.12

रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम्
ददृशुर् विस्मिताकारा रामस्य वनवासिनः ॥

3.1.13

वैदेहीं लक्ष्मणं रामं नेत्रैर् अनिमिषैर् इव
आश्चर्यभूतान् ददृशुः सर्वे ते वनचारिणः ॥

3.1.14

अत्रैनं हि महाभागाः सर्वभूतहिते रताः
अतिथिं पर्णशालायां राघवं संन्यवेशयन् ॥

3.1.15

ततो रामस्य सत्कृत्य विधिना पावकोपमाः
आजह्रुस् ते महाभागाः सलिलं धर्मचारिणः ॥

3.1.16

मूलं पुष्पं फलं वन्यम् आश्रमं च महात्मनः
निवेदयित्वा धर्मज्ञास् ततः प्राञ्जलयो ऽब्रुवन् ॥

3.1.17

धर्मपालो जनस्यास्य शरण्यश् च महायशाः
पूजनीयश् च मान्यश् च राजा दण्डधरो गुरुः ॥

3.1.18

इन्द्रस्येव चतुर्भागः प्रजा रक्षति राघव
राजा तस्माद् वरान् भोगान् भुङ्क्ते लोकनमस्कृतः ॥

3.1.19

ते वयं भवता रक्ष्या भवद्विषयवासिनः
नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः ॥

3.1.20

न्यस्तदण्डा वयं राजञ् जितक्रोधा जितेन्द्रियाः
रक्षितव्यास् त्वया शश्वद् गर्भभूतास् तपोधनाः ॥

3.1.21

एवम् उक्त्वा फलैर् मूलैः पुष्पैर् वन्यैश् च राघवम्
अन्यैश् च विविधाहारैः सलक्ष्मणम् अपूजयन् ॥

3.1.22

तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः
न्यायवृत्ता यथान्यायं तर्पयामासुर् ईश्वरम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc