रामायण (संशोधित पाठ) · अध्याय 3.18
तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम्
भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः ॥
बलविक्रमसम्पन्ना कामगा कामरूपिणी
इमाम् अवस्थां नीता त्वं केनान्तकसमा गता ॥
देवगन्धर्वभूतानाम् ऋषीणां च महात्मनाम्
को ऽयम् एवं महावीर्यस् त्वां विरूपां चकार ह ॥
न हि पश्याम्य् अहं लोके यः कुर्यान् मम विप्रियम्
अन्तरेन सहस्राक्षं महेन्द्रं पाकशासनम् ॥
अद्याहं मार्गणैः प्राणान् आदास्ये जीवितान्तकैः
सलिले क्षीरम् आसक्तं निष्पिबन्न् इव सारसः ॥
निहतस्य मया संख्ये शरसंकृत्तमर्मणः
सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति ॥
कस्य पत्त्ररथाः कायान् मांसम् उत्कृत्य संगताः
प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ॥
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः
मयापकृष्टं कृपणं शक्तास् त्रातुं महाहवे ॥
उपलभ्य शनैः संज्ञां तं मे शंसितुम् अर्हसि
येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता ॥
इति भ्रातुर् वचः श्रुत्वा क्रुद्धस्य च विशेषतः
ततः शूर्पणखा वाक्यं सबाष्पम् इदम् अब्रवीत् ॥
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥
गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ
देवौ वा मानुषौ वा तौ न तर्कयितुम् उत्सहे ॥
तरुणी रूपसम्पन्ना सर्वाभरणभूषिता
दृष्टा तत्र मया नारी तयोर् मध्ये सुमध्यमा ॥
ताभ्याम् उभाभ्यां सम्भूय प्रमदाम् अधिकृत्य ताम्
इमाम् अवस्थां नीताहं यथानाथासती तथा ॥
तस्याश् चानृजुवृत्तायास् तयोश् च हतयोर् अहम्
सफेनं पातुम् इच्छामि रुधिरं रणमूर्धनि ॥
एष मे प्रथमः कामः कृतस् तात त्वया भवेत्
तस्यास् तयोश् च रुधिरं पिबेयम् अहम् आहवे ॥
इति तस्यां ब्रुवाणायां चतुर्दश महाबलान्
व्यादिदेश खरः क्रुद्धो राक्षसान् अन्तकोपमान् ॥
मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ
प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह ॥
तौ हत्वा तां च दुर्वृत्ताम् उपावर्तितुम् अर्हथ
इयं च रुधिरं तेषां भगिनी मम पास्यति ॥
मनोरथो ऽयम् इष्टो ऽस्या भगिन्या मम राक्षसाः
शीघ्रं संपद्यतां गत्वा तौ प्रमथ्य स्वतेजसा ॥
इति प्रतिसमादिष्टा राक्षसास् ते चतुर्दश
तत्र जग्मुस् तया सार्धं घना वातेरिता यथा ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0