भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.17

3.17.1

तां तु शूर्पणखां रामः कामपाशावपाशिताम्
स्वच्छया श्लक्ष्णया वाचा स्मितपूर्वम् अथाब्रवीत् ॥

3.17.2

कृतदारो ऽस्मि भवति भार्येयं दयिता मम
त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता ॥

3.17.3

अनुजस् त्व् एष मे भ्राता शीलवान् प्रियदर्शनः
श्रीमान् अकृतदारश् च लक्ष्मणो नाम वीर्यवान् ॥

3.17.4

अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः
अनुरूपश् च ते भर्ता रूपस्यास्य भविष्यति ॥

3.17.5

एनं भज विशालाक्षि भर्तारं भ्रातरं मम
असपत्ना वरारोहे मेरुम् अर्कप्रभा यथा ॥

3.17.6

इति रामेण सा प्रोक्ता राक्षसी काममोहिता
विसृज्य रामं सहसा ततो लक्ष्मणम् अब्रवीत् ॥

3.17.7

अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी
मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि ॥

3.17.8

एवम् उक्तस् तु सौमित्री राक्षस्या वाक्यकोविदः
ततः शूर्पणखीं स्मित्वा लक्ष्मणो युक्तम् अब्रवीत् ॥

3.17.9

कथं दासस्य मे दासी भार्या भवितुम् इच्छसि
सो ऽहम् आर्येण परवान् भ्रात्रा कमलवर्णिनि ॥

3.17.10

समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी
आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी ॥

3.17.11

एतां विरूपाम् असतीं करालां निर्णतोदरीम्
भार्यां वृद्धां परित्यज्य त्वाम् एवैष भजिष्यति ॥

3.17.12

को हि रूपम् इदं श्रेष्ठं संत्यज्य वरवर्णिनि
मानुषेषु वरारोहे कुर्याद् भावं विचक्षणः ॥

3.17.13

इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी
मन्यते तद् वचः सत्यं परिहासाविचक्षणा ॥

3.17.14

सा रामं पर्णशालायाम् उपविष्टं परंतपम्
सीतया सह दुर्धर्षम् अब्रवीत् काममोहिता ॥

3.17.15

इमां विरूपाम् असतीं करालां निर्णतोदरीम्
वृद्धां भार्याम् अवष्टभ्य न मां त्वं बहु मन्यसे ॥

3.17.16

अद्येमां भक्षयिष्यामि पश्यतस् तव मानुषीम्
त्वया सह चरिष्यामि निःसपत्ना यथासुखम् ॥

3.17.17

इत्य् उक्त्वा मृगशावाक्षीम् अलातसदृशेक्षणा
अभ्यधावत् सुसंक्रुद्धा महोल्का रोहिणीम् इव ॥

3.17.18

तां मृत्युपाशप्रतिमाम् आपतन्तीं महाबलः
निगृह्य रामः कुपितस् ततो लक्ष्मणम् अब्रवीत् ॥

3.17.19

क्रूरैर् अनार्यैः सौमित्रे परिहासः कथंचन
न कार्यः पश्य वैदेहीं कथंचित् सौम्य जीवतीम् ॥

3.17.20

इमां विरूपाम् असतीम् अतिमत्तां महोदरीम्
राक्षसीं पुरुषव्याघ्र विरूपयितुम् अर्हसि ॥

3.17.21

इत्य् उक्तो लक्ष्मणस् तस्याः क्रुद्धो रामस्य पश्यतः
उद्धृत्य खड्गं चिछेद कर्णनासं महाबलः ॥

3.17.22

निकृत्तकर्णनासा तु विस्वरं सा विनद्य च
यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् ॥

3.17.23

सा विरूपा महाघोरा राक्षसी शोणितोक्षिता
ननाद विविधान् नादान् यथा प्रावृषि तोयदः ॥

3.17.24

सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना
प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥

3.17.25

ततस् तु सा राक्षससंघसंवृतं खरं जनस्थानगतं विरूपिता
उपेत्य तं भ्रातरम् उग्रतेजसं पपात भूमौ गगनाद् यथाशनिः ॥

3.17.26

ततः सभार्यं भयमोहमूर्छिता सलक्ष्मणं राघवम् आगतं वनम्
विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc