रामायण (संशोधित पाठ) · अध्याय 3.16
कृताभिषेको रामस् तु सीता सौमित्रिर् एव च
तस्माद् गोदावरीतीरात् ततो जग्मुः स्वम् आश्रमम् ॥
आश्रमं तम् उपागम्य राघवः सहलक्ष्मणः
कृत्वा पौर्वाह्णिकं कर्म पर्णशालाम् उपागमत् ॥
स रामः पर्णशालायाम् आसीनः सह सीतया
विरराज महाबाहुश् चित्रया चन्द्रमा इव
लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ॥
तदासीनस्य रामस्य कथासंसक्तचेतसः
तं देशं राक्षसी काचिद् आजगाम यदृच्छया ॥
सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः
भगिनी रामम् आसाद्य ददर्श त्रिदशोपमम् ॥
सिंहोरस्कं महाबाहुं पद्मपत्त्रनिभेक्षणम्
सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् ॥
रामम् इन्दीवरश्यामं कन्दर्पसदृशप्रभम्
बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता ॥
सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी
विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा ॥
प्रियरूपं विरूपा सा सुस्वरं भैरवस्वरा
तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ॥
न्यायवृत्तं सुदुर्वृत्ता प्रियम् अप्रियदर्शना
शरीरजसमाविष्टा राक्षसी रामम् अब्रवीत् ॥
जटी तापसरूपेण सभार्यः शरचापधृक्
आगतस् त्वम् इमं देशं कथं राक्षससेवितम् ॥
एवम् उक्तस् तु राक्षस्या शूर्पणख्या परंतपः
ऋजुबुद्धितया सर्वम् आख्यातुम् उपचक्रमे ॥
आसीद् दशरथो नाम राजा त्रिदशविक्रमः
तस्याहम् अग्रजः पुत्रो रामो नाम जनैः श्रुतः ॥
भ्रातायं लक्ष्मणो नाम यवीयान् माम् अनुव्रतः
इयं भार्या च वैदेही मम सीतेति विश्रुता ॥
नियोगात् तु नरेन्द्रस्य पितुर् मातुश् च यन्त्रितः
धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुम् इहागतः ॥
त्वां तु वेदितुम् इच्छामि कथ्यतां कासि कस्य वा
इह वा किंनिमित्तं त्वम् आगता ब्रूहि तत्त्वतः ॥
साब्रवीद् वचनं श्रुत्वा राक्षसी मदनार्दिता
श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम ॥
अहं शूर्पणखा नाम राक्षसी कामरूपिणी
अरण्यं विचरामीदम् एका सर्वभयंकरा ॥
रावणो नाम मे भ्राता राक्षसो राक्षसेश्वरः
प्रवृद्धनिद्रश् च सदा कुम्भकर्णो महाबलः ॥
विभीषणस् तु धर्मात्मा न तु राक्षसचेष्टितः
प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ ॥
तान् अहं समतिक्रान्ता राम त्वा पूर्वदर्शनात्
समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम्
चिराय भव भर्ता मे सीतया किं करिष्यसि ॥
विकृता च विरूपा च न सेयं सदृशी तव
अहम् एवानुरूपा ते भार्या रूपेण पश्य माम् ॥
इमां विरूपाम् असतीं करालां निर्णतोदरीम्
अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम् ॥
ततः पर्वतशृङ्गाणि वनानि विविधानि च
पश्यन् सह मया कान्त दण्डकान् विचरिष्यसि ॥
इत्य् एवम् उक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम्
इदं वचनम् आरेभे वक्तुं वाक्यविशारदः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0