रामायण (संशोधित पाठ) · अध्याय 3.15
असतस् तस्य तु सुखं राघवस्य महात्मनः
शरद्व्यपाये हेमन्त ऋतुर् इष्टः प्रवर्तते ॥
स कदाचित् प्रभातायां शर्वर्यां रघुनन्दनः
प्रययाव् अभिषेकार्थं रम्यां गोदावरीं नदीम् ॥
प्रह्वः कलशहस्तस् तं सीतया सह वीर्यवान्
पृष्ठतो ऽनुव्रजन् भ्राता सौमित्रिर् इदम् अब्रवीत् ॥
अयं स कालः सम्प्राप्तः प्रियो यस् ते प्रियंवद
अलंकृत इवाभाति येन संवत्सरः शुभः ॥
नीहारपरुषो लोकः पृथिवी सस्यमालिनी
जलान्य् अनुपभोग्यानि सुभगो हव्यवाहनः ॥
नवाग्रयणपूजाभिर् अभ्यर्च्य पितृदेवताः
कृताग्रयणकाः काले सन्तो विगतकल्मषाः ॥
प्राज्यकामा जनपदाः सम्पन्नतरगोरसाः
विचरन्ति महीपाला यात्रार्थं विजिगीषवः ॥
सेवमाने दृढं सूर्ये दिशम् अन्तकसेविताम्
विहीनतिलकेव स्त्री नोत्तरा दिक् प्रकाशते ॥
प्रकृत्या हिमकोशाढ्यो दूरसूर्यश् च साम्प्रतम्
यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः ॥
अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः
दिवसाः सुभगादित्याश् छायासलिलदुर्भगाः ॥
मृदुसूर्याः सनीहाराः पटुशीताः समारुताः
शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम् ॥
निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः
शीता वृद्धतरायामास् त्रियामा यान्ति साम्प्रतम् ॥
रविसंक्रान्तसौभाग्यस् तुषारारुणमण्डलः
निःश्वासान्ध इवादर्शश् चन्द्रमा न प्रकाशते ॥
ज्योत्स्ना तुषारमलिना पौर्णमास्यां न राजते
सीतेव चातपश्यामा लक्ष्यते न तु शोभते ॥
प्रकृत्या शीतलस्पर्शो हिमविद्धश् च साम्प्रतम्
प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः ॥
बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च
शोभन्ते ऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः ॥
खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः
शोभन्ते किंचिदालम्बाः शालयः कनकप्रभाः ॥
मयूखैर् उपसर्पद्भिर् हिमनीहारसंवृतैः
दूरम् अभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते ॥
अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः
संरक्तः किंचिद् आपाण्डुर् आतपः शोभते क्षितौ ॥
अवश्यायनिपातेन किंचित् प्रक्लिन्नशाद्वला
वनानां शोभते भूमिर् निविष्टतरुणातपा ॥
अवश्यायतमोनद्धा नीहारतमसावृताः
प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः ॥
बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः
हिमार्द्रवालुकैस् तीरैः सरितो भान्ति साम्प्रतम् ॥
तुषारपतनाच् चैव मृदुत्वाद् भास्करस्य च
शैत्याद् अगाग्रस्थम् अपि प्रायेण रसवज् जलम् ॥
जराजर्जरितैः पर्णैः शीर्णकेसरकर्णिकैः
नालशेषा हिमध्वस्ता न भान्ति कमलाकराः ॥
अस्मिंस् तु पुरुषव्याघ्र काले दुःखसमन्वितः
तपश् चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे ॥
त्यक्त्वा राज्यं च मानं च भोगांश् च विविधान् बहून्
तपस्वी नियताहारः शेते शीते महीतले ॥
सो ऽपि वेलाम् इमां नूनम् अभिषेकार्थम् उद्यतः
वृतः प्रकृतिभिर् नित्यं प्रयाति सरयूं नदीम् ॥
अत्यन्तसुखसंवृद्धः सुकुमारो हिमार्दितः
कथं त्व् अपररात्रेषु सरयूम् अवगाहते ॥
पद्मपत्त्रेक्षणः श्यामः श्रीमान् निरुदरो महान्
धर्मज्ञः सत्यवादी च ह्रीनिषेधो जितेन्द्रियः ॥
प्रियाभिभाषी मधुरो दीर्घबाहुर् अरिंदमः
संत्यज्य विविधान् भोगान् आर्यं सर्वात्मनाश्रितः ॥
जितः स्वर्गस् तव भ्रात्रा भरतेन महात्मना
वनस्थम् अपि तापस्ये यस् त्वाम् अनुविधीयते ॥
न पित्र्यम् अनुवर्तन्ते मातृकं द्विपदा इति
ख्यातो लोकप्रवादो ऽयं भरतेनान्यथाकृतः ॥
भर्ता दशरथो यस्याः साधुश् च भरतः सुतः
कथं नु साम्बा कैकेयी तादृशी क्रूरदर्शिनी ॥
इत्य् एवं लक्ष्मणे वाक्यं स्नेहाद् ब्रुवति धार्मिके
परिवादं जनन्यास् तम् असहन् राघवो ऽब्रवीत् ॥
न ते ऽम्बा मध्यमा तात गर्हितव्या कथंचन
ताम् एवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु ॥
निश्चितापि हि मे बुद्धिर् वनवासे दृढव्रता
भरतस्नेहसंतप्ता बालिशी क्रियते पुनः ॥
इत्य् एवं विलपंस् तत्र प्राप्य गोदावरीं नदीम्
चक्रे ऽभिषेकं काकुत्स्थः सानुजः सह सीतया ॥
तर्पयित्वाथ सलिलैस् ते पितॄन् दैवतानि च
स्तुवन्ति स्मोदितं सूर्यं देवताश् च समाहिताः ॥
कृताभिषेकः स रराज रामः सीताद्वितीयः सह लक्ष्मणेन
कृताभिषेकस् त्व् अगराजपुत्र्या रुद्रः सनन्दी भगवान् इवेशः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0