भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.14

3.14.1

ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम्
उवाच भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ॥

3.14.2

आगताः स्म यथोद्दिष्टम् अमुं देशं महर्षिणा
अयं पञ्चवटीदेशः सौम्य पुष्पितकाननः ॥

3.14.3

सर्वतश् चार्यतां दृष्टिः कानने निपुणो ह्य् असि
आश्रमः कतरस्मिन् नो देशे भवति संमतः ॥

3.14.4

रमते यत्र वैदेही त्वम् अहं चैव लक्ष्मण
तादृशो दृश्यतां देशः संनिकृष्टजलाशयः ॥

3.14.5

वनरामण्यकं यत्र जलरामण्यकं तथा
संनिकृष्टं च यत्र स्यात् समित्पुष्पकुशोदकम् ॥

3.14.6

एवम् उक्तस् तु रामेण लक्ष्मणः संयताञ्जलिः
सीतासमक्षं काकुत्स्थम् इदं वचनम् अब्रवीत् ॥

3.14.7

परवान् अस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते
स्वयं तु रुचिरे देशे क्रियताम् इति मां वद ॥

3.14.8

सुप्रीतस् तेन वाक्येन लक्ष्मणस्य महाद्युतिः
विमृशन् रोचयामास देशं सर्वगुणान्वितम् ॥

3.14.9

स तं रुचिरम् आक्रम्य देशम् आश्रमकर्मणि
हस्तौ गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत् ॥

3.14.10

अयं देशः समः श्रीमान् पुष्पितैस् तरुभिर् वृतः
इहाश्रमपदं सौम्य यथावत् कर्तुम् अर्हसि ॥

3.14.11

इयम् आदित्यसंकाशैः पद्मैः सुरभिगन्धिभिः
अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता ॥

3.14.12

यथाख्यातम् अगस्त्येन मुनिना भावितात्मना
इयं गोदावरी रम्या पुष्पितैस् तरुभिर् वृता ॥

3.14.13

हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता
नातिदूरे न चासन्ने मृगयूथनिपीडिता ॥

3.14.14

मयूरनादिता रम्याः प्रांशवो बहुकन्दराः
दृश्यन्ते गिरयः सौम्य फुल्लैस् तरुभिर् आवृताः ॥

3.14.15

सौवर्णे राजतैस् ताम्रैर् देशे देशे च धातुभिः
गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः ॥

3.14.16

सालैस् तालैस् तमालैश् च खर्जूरैः पनसाम्रकैः
नीवारैस् तिमिशैश् चैव पुंनागैश् चोपशोभिताः ॥

3.14.17

चूतैर् अशोकैस् तिलकैश् चम्पकैः केतकैर् अपि
पुष्पगुल्मलतोपेतैस् तैस् तैस् तरुभिर् आवृताः ॥

3.14.18

चन्दनैः स्यन्दनैर् नीपैः पनसैर् लकुचैर् अपि
धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः ॥

3.14.19

इदं पुण्यम् इदं मेध्यम् इदं बहुमृगद्विजम्
इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा ॥

3.14.20

एवम् उक्तस् तु रामेण लक्ष्मणः परवीरहा
अचिरेणाश्रमं भ्रातुश् चकार सुमहाबलः ॥

3.14.21

पर्णशालां सुविपुलां तत्र संघातमृत्तिकाम्
सुस्तम्भां मस्करैर् दीर्घैः कृतवंशां सुशोभनाम् ॥

3.14.22

स गत्वा लक्ष्मणः श्रीमान् नदीं गोदावरीं तदा
स्नात्वा पद्मानि चादाय सफलः पुनर् आगतः ॥

3.14.23

ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि
दर्शयामास रामाय तद् आश्रमपदं कृतम् ॥

3.14.24

स तं दृष्ट्वा कृतं सौम्यम् आश्रमं सह सीतया
राघवः पर्णशालायां हर्षम् आहारयत् परम् ॥

3.14.25

सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा
अतिस्निग्धं च गाढं च वचनं चेदम् अब्रवीत् ॥

3.14.26

प्रीतो ऽस्मि ते महत् कर्म त्वया कृतम् इदं प्रभो
प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः ॥

3.14.27

भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण
त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥

3.14.28

एवं लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः
तस्मिन् देशे बहुफले न्यवसत् स सुखं वशी ॥

3.14.29

कंचित् कालं स धर्मात्मा सीतया लक्ष्मणेन च
अन्वास्यमानो न्यवसत् स्वर्गलोके यथामरः ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc