भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.13

3.13.1

अथ पञ्चवटीं गच्छन्न् अन्तरा रघुनन्दनः
आससाद महाकायं गृध्रं भीमपराक्रमम् ॥

3.13.2

तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ
मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवान् इति ॥

3.13.3

स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव
उवाच वत्स मां विद्धि वयस्यं पितुर् आत्मनः ॥

3.13.4

स तं पितृसखं बुद्ध्वा पूजयामास राघवः
स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च ॥

3.13.5

रामस्य वचनं श्रुत्वा कुलम् आत्मानम् एव च
आचचक्षे द्विजस् तस्मै सर्वभूतसमुद्भवम् ॥

3.13.6

पूर्वकाले महाबाहो ये प्रजापतयो ऽभवन्
तान् मे निगदतः सर्वान् आदितः शृणु राघव ॥

3.13.7

कर्दमः प्रथमस् तेषां विकृतस् तदनन्तरम्
शेषश् च संश्रयश् चैव बहुपुत्रश् च वीर्यवान् ॥

3.13.8

स्थाणुर् मरीचिर् अत्रिश् च क्रतुश् चैव महाबलः
पुलस्त्यश् चाङ्गिराश् चैव प्रचेताः पुलहस् तथा ॥

3.13.9

दक्षो विवस्वान् अपरो ऽरिष्टनेमिश् च राघव
कश्यपश् च महातेजास् तेषाम् आसीच् च पश्चिमः ॥

3.13.10

प्रजापतेस् तु दक्षस्य बभूवुर् इति नः श्रुतम्
षष्टिर् दुहितरो राम यशस्विन्यो महायशः ॥

3.13.11

कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः
अदितिं च दितिं चैव दनुम् अपि च कालकाम् ॥

3.13.12

ताम्रां क्रोधवशां चैव मनुं चाप्य् अनलाम् अपि
तास् तु कन्यास् ततः प्रीतः कश्यपः पुनर् अब्रवीत् ॥

3.13.13

पुत्रांस् त्रैलोक्यभर्तॄन् वै जनयिष्यथ मत्समान्
अदितिस् तन्मना राम दितिश् च दनुर् एव च ॥

3.13.14

कालका च महाबाहो शेषास् त्व् अमनसो ऽभवन्
अदित्यां जज्ञिरे देवास् त्रयस्त्रिंशद् अरिंदम ॥

3.13.15

आदित्या वसवो रुद्रा अश्विनौ च परंतप
दितिस् त्व् अजनयत् पुत्रान् दैत्यांस् तात यशस्विनः ॥

3.13.16

तेषाम् इयं वसुमती पुरासीत् सवनार्णवा
दनुस् त्व् अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम ॥

3.13.17

नरकं कालकं चैव कालकापि व्यजायत
क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् ॥

3.13.18

ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः
उलूकाञ् जनयत् क्रौञ्ची भासी भासान् व्यजायत ॥

3.13.19

श्येनी श्येनांश् च गृध्रांश् च व्यजायत सुतेजसः
धृतराष्ट्री तु हंसांश् च कलहंसांश् च सर्वशः ॥

3.13.20

चक्रवाकांश् च भद्रं ते विजज्ञे सापि भामिनी
शुकी नतां विजज्ञे तु नताया विनता सुता ॥

3.13.21

दश क्रोधवशा राम विजज्ञे ऽप्य् आत्मसम्भवाः
मृगीं च मृगमन्दां च हरीं भद्रमदाम् अपि ॥

3.13.22

मातंगीम् अथ शार्दूलीं श्वेतां च सुरभीं तथा
सर्वलक्षणसम्पन्नां सुरसां कद्रुकाम् अपि ॥

3.13.23

अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम
ऋक्षाश् च मृगमन्दायाः सृमराश् चमरास् तथा ॥

3.13.24

ततस् त्व् इरावतीं नाम जज्ञे भद्रमदा सुताम्
तस्यास् त्व् ऐरावतः पुत्रो लोकनाथो महागजः ॥

3.13.25

हर्याश् च हरयो ऽपत्यं वानराश् च तपस्विनः
गोलाङ्गूलांश् च शार्दूली व्याघ्रांश् चाजनयत् सुतान् ॥

3.13.26

मातंग्यास् त्व् अथ मातंगा अपत्यं मनुजर्षभ
दिशागजं तु श्वेताक्षं श्वेता व्यजनयत् सुतम् ॥

3.13.27

ततो दुहितरौ राम सुरभिर् देव्य् अजायत
रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम् ॥

3.13.28

रोहिण्य् अजनयद् गा वै गन्धर्वी वाजिनः सुतान्
सुरसाजनयन् नागान् राम कद्रूश् च पन्नगान् ॥

3.13.29

मनुर् मनुष्याञ् जनयत् कश्यपस्य महात्मनः
ब्राह्मणान् क्षत्रियान् वैश्याञ् शूद्रांश् च मनुजर्षभ ॥

3.13.30

मुखतो ब्राह्मणा जाता उरसः क्षत्रियास् तथा
ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः ॥

3.13.31

सर्वान् पुण्यफलान् वृक्षान् अनलापि व्यजायत
विनता च शुकी पौत्री कद्रूश् च सुरसा स्वसा ॥

3.13.32

कद्रूर् नागं सहस्रं तु विजज्ञे धरणीधरम्
द्वौ पुत्रौ विनतायास् तु गरुडो ऽरुण एव च ॥

3.13.33

तस्माज् जातो ऽहम् अरुणात् सम्पातिश् च ममाग्रजः
जटायुर् इति मां विद्धि श्येनीपुत्रम् अरिंदम ॥

3.13.34

सो ऽहं वाससहायस् ते भविष्यामि यदीच्छसि
सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥

3.13.35

जटायुषं तु प्रतिपूज्य राघवो मुदा परिष्वज्य च संनतो ऽभवत्
पितुर् हि शुश्राव सखित्वम् आत्मवाञ् जटायुषा संकथितं पुनः पुनः ॥

3.13.36

स तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा
जगाम तां पञ्चवटीं सलक्ष्मणो रिपून् दिधक्षञ् शलभान् इवानलः ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc