भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.12

3.12.1

राम प्रीतो ऽस्मि भद्रं ते परितुष्टो ऽस्मि लक्ष्मण
अभिवादयितुं यन् मां प्राप्तौ स्थः सह सीतया ॥

3.12.2

अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः
व्यक्तम् उत्कण्ठते चापि मैथिली जनकात्मजा ॥

3.12.3

एषा हि सुकुमारी च दुःखैश् च न विमानिता
प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता ॥

3.12.4

यथैषा रमते राम इह सीता तथा कुरु
दुष्करं कृतवत्य् एषा वने त्वाम् अनुगच्छती ॥

3.12.5

एषा हि प्रकृतिः स्त्रीणाम् आसृष्टे रघुनन्दन
समस्थम् अनुरज्यन्ते विषमस्थं त्यजन्ति च ॥

3.12.6

शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा
गरुडानिलयोः शैघ्र्यम् अनुगच्छन्ति योषितः ॥

3.12.7

इयं तु भवतो भार्या दोषैर् एतैर् विवर्जिता
श्लाघ्या च व्यपदेश्या च यथा देवी ह्य् अरुन्धती ॥

3.12.8

अलंकृतो ऽयं देशश् च यत्र सौमित्रिणा सह
वैदेह्या चानया राम वत्स्यसि त्वम् अरिंदम ॥

3.12.9

एवम् उक्तस् तु मुनिना राघवः संयताञ्जलिः
उवाच प्रश्रितं वाक्यम् ऋषिं दीप्तम् इवानलम् ॥

3.12.10

धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे मुनिपुंगवः
गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति ॥

3.12.11

किं तु व्यादिश मे देशं सोदकं बहुकाननम्
यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् ॥

3.12.12

ततो ऽब्रवीन् मुनिश्रेष्ठः श्रुत्वा रामस्य भाषितम्
ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः ॥

3.12.13

इतो द्वियोजने तात बहुमूलफलोदकः
देशो बहुमृगः श्रीमान् पञ्चवट्य् अभिविश्रुतः ॥

3.12.14

तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह
रमस्व त्वं पितुर् वाक्यं यथोक्तम् अनुपालयन् ॥

3.12.15

विदितो ह्य् एष वृत्तान्तो मम सर्वस् तवानघ
तपसश् च प्रभावेन स्नेहाद् दशरथस्य च ॥

3.12.16

हृदयस्थश् च ते छन्दो विज्ञातस् तपसा मया
इह वासं प्रतिज्ञाय मया सह तपोवने ॥

3.12.17

अतश् च त्वाम् अहं ब्रूमि गच्छ पञ्चवटीम् इति
स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते ॥

3.12.18

स देशः श्लाघनीयश् च नातिदूरे च राघव
गोदावर्याः समीपे च मैथिली तत्र रंस्यते ॥

3.12.19

प्राज्यमूलफलैश् चैव नानाद्विजगणैर् युतः
विविक्तश् च महाबाहो पुण्यो रम्यस् तथैव च ॥

3.12.20

भवान् अपि सदारश् च शक्तश् च परिरक्षणे
अपि चात्र वसन् रामस् तापसान् पालयिष्यसि ॥

3.12.21

एतद् आलक्ष्यते वीर मधूकानां महद् वनम्
उत्तरेणास्य गन्तव्यं न्यग्रोधम् अभिगच्छता ॥

3.12.22

ततः स्थलम् उपारुह्य पर्वतस्याविदूरतः
ख्यातः पञ्चवटीत्य् एव नित्यपुष्पितकाननः ॥

3.12.23

अगस्त्येनैवम् उक्तस् तु रामः सौमित्रिणा सह
सत्कृत्यामन्त्रयामास तम् ऋषिं सत्यवादिनम् ॥

3.12.24

तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ
तदाश्रमात् पञ्चवटीं जग्मतुः सह सीतया ॥

3.12.25

गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणी समरेष्व् अकातरौ
यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc