भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.11

3.11.1

स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः
अगस्त्यशिष्यम् आसाद्य वाक्यम् एतद् उवाच ह ॥

3.11.2

राजा दशरथो नाम ज्येष्ठस् तस्य सुतो बली
रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ॥

3.11.3

लक्ष्मणो नाम तस्याहं भ्राता त्व् अवरजो हितः
अनुकूलश् च भक्तश् च यदि ते श्रोत्रम् आगतः ॥

3.11.4

ते वयं वनम् अत्युग्रं प्रविष्टाः पितृशासनात्
द्रष्टुम् इच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥

3.11.5

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः
तथेत्य् उक्त्वाग्निशरणं प्रविवेश निवेदितुम् ॥

3.11.6

स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम्
कृताञ्जलिर् उवाचेदं रामागमनम् अञ्जसा ॥

3.11.7

पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च
प्रविष्टाव् आश्रमपदं सीतया सह भार्यया ॥

3.11.8

द्रष्टुं भवन्तम् आयातौ शुश्रूषार्थम् अरिंदमौ
यद् अत्रानन्तरं तत्त्वम् आज्ञापयितुम् अर्हसि ॥

3.11.9

ततः शिष्याद् उपश्रुत्य प्राप्तं रामं सलक्ष्मणम्
वैदेहीं च महाभागाम् इदं वचनम् अब्रवीत् ॥

3.11.10

दिष्ट्या रामश् चिरस्याद्य द्रष्टुं मां समुपागतः
मनसा काङ्क्षितं ह्य् अस्य मयाप्य् आगमनं प्रति ॥

3.11.11

गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः
प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः ॥

3.11.12

एवम् उक्तस् तु मुनिना धर्मज्ञेन महात्मना
अभिवाद्याब्रवीच् छिष्यस् तथेति नियताञ्जलिः ॥

3.11.13

ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणम् अब्रवीत्
क्वासौ रामो मुनिं द्रष्टुम् एतु प्रविशतु स्वयम् ॥

3.11.14

ततो गत्वाश्रमपदं शिष्येण सहलक्ष्मणः
दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् ॥

3.11.15

तं शिष्यः प्रश्रितं वाक्यम् अगस्त्यवचनं ब्रुवन्
प्रावेशयद् यथान्यायं सत्कारार्थं सुसत्कृतम् ॥

3.11.16

प्रविवेश ततो रामः सीतया सहलक्ष्मणः
प्रशान्तहरिणाकीर्णम् आश्रमं ह्य् अवलोकयन् ॥

3.11.17

स तत्र ब्रह्मणः स्थानम् अग्नेः स्थानं तथैव च
विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः ॥

3.11.18

सोमस्थानं भगस्थानं स्थानं कौबेरम् एव च
धातुर् विधातुः स्थानं च वायोः स्थानं तथैव च ॥

3.11.19

ततः शिष्यैः परिवृतो मुनिर् अप्य् अभिनिष्पतत्
तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसम्
अब्रवीद् वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् ॥

3.11.20

एष लक्ष्मण निष्क्रामत्य् अगस्त्यो भगवान् ऋषिः
औदार्येणावगच्छामि निधानं तपसाम् इमम् ॥

3.11.21

एवम् उक्त्वा महाबाहुर् अगस्त्यं सूर्यवर्चसम्
जग्राह परमप्रीतस् तस्य पादौ परंतपः ॥

3.11.22

अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः
सीतया सह वैदेह्या तदा रामः सलक्ष्मणः ॥

3.11.23

प्रतिगृह्य च काकुत्स्थम् अर्चयित्वासनोदकैः
कुशलप्रश्नम् उक्त्वा च आस्यताम् इति सो ऽब्रवीत् ॥

3.11.24

अग्निं हुत्वा प्रदायार्घ्यम् अतिथिं प्रतिपूज्य च
वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ ॥

3.11.25

प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः
उवाच रामम् आसीनं प्राञ्जलिं धर्मकोविदम् ॥

3.11.26

अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन्
दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् ॥

3.11.27

राजा सर्वस्य लोकस्य धर्मचारी महारथः
पूजनीयश् च मान्यश् च भवान् प्राप्तः प्रियातिथिः ॥

3.11.28

एवम् उक्त्वा फलैर् मूलैः पुष्पैश् चान्यैश् च राघवम्
पूजयित्वा यथाकामं पुनर् एव ततो ऽब्रवीत् ॥

3.11.29

इदं दिव्यं महच् चापं हेमवज्रविभूषितम्
वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ॥

3.11.30

अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः
दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ ॥

3.11.31

सम्पूर्णौ निशितैर् बाणैर् ज्वलद्भिर् इव पावकैः
महारजतकोशो ऽयम् असिर् हेमविभूषितः ॥

3.11.32

अनेन धनुषा राम हत्वा संख्ये महासुरान्
आजहार श्रियं दीप्तां पुरा विष्णुर् दिवौकसाम् ॥

3.11.33

तद् धनुस् तौ च तूणीरौ शरं खड्गं च मानद
जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ॥

3.11.34

एवम् उक्त्वा महातेजाः समस्तं तद् वरायुधम्
दत्त्वा रामाय भगवान् अगस्त्यः पुनर् अब्रवीत् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc