भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.111

2.111.1

अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम्
पर्यष्वजत बाहुभ्यां शिरस्य् आघ्राय मैथिलीम् ॥

2.111.2

व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया
यथा स्वयंवरं वृत्तं तत् सर्वं हि श्रुतं मया ॥

2.111.3

रमे ऽहं कथया ते तु दृढं मधुरभाषिणि
रविर् अस्तं गतः श्रीमान् उपोह्य रजनीं शिवाम् ॥

2.111.4

दिवसं प्रतिकीर्णानाम् आहारार्थं पतत्रिणाम्
संध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः ॥

2.111.5

एते चाप्य् अभिषेकार्द्रा मुनयः फलशोधनाः
सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः ॥

2.111.6

ऋषीणाम् अग्निहोत्रेषु हुतेषु विधिपुर्वकम्
कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः ॥

2.111.7

अल्पपर्णा हि तरवो घनीभूताः समन्ततः
विप्रकृष्टे ऽपि ये देशे न प्रकाशन्ति वै दिशः ॥

2.111.8

रजनीचरसत्त्वानि प्रचरन्ति समन्ततः
तपोवनमृगा ह्य् एते वेदितीर्थेषु शेरते ॥

2.111.9

सम्प्रवृत्ता निशा सीते नक्षत्रसमलंकृता
ज्योत्स्नाप्रावरणश् चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ॥

2.111.10

गम्यताम् अनुजानामि रामस्यानुचरी भव
कथयन्त्या हि मधुरं त्वयाहं परितोषिता ॥

2.111.11

अलंकुरु च तावत् त्वं प्रत्यक्षं मम मैथिलि
प्रीतिं जनय मे वत्स दिव्यालंकारशोभिनी ॥

2.111.12

सा तदा समलंकृत्य सीता सुरसुतोपमा
प्रणम्य शिरसा तस्यै रामं त्व् अभिमुखी ययौ ॥

2.111.13

तथा तु भूषितां सीतां ददर्श वदतां वरः
राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ॥

2.111.14

न्यवेदयत् ततः सर्वं सीता रामाय मैथिली
प्रीतिदानं तपस्विन्या वसनाभरणस्रजाम् ॥

2.111.15

प्रहृष्टस् त्व् अभवद् रामो लक्ष्मणश् च महारथः
मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥

2.111.16

ततस् तां शर्वरीं प्रीतः पुण्यां शशिनिभाननः
अर्चितस् तापसैः सिद्धैर् उवास रघुनन्दनः ॥

2.111.17

तस्यां रात्र्यां व्यतीतायाम् अभिषिच्य हुताग्निकान्
आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ॥

2.111.18

ताव् ऊचुस् ते वनचरास् तापसा धर्मचारिणः
वनस्य तस्य संचारं राक्षसैः समभिप्लुतम् ॥

2.111.19

एष पन्था महर्षीणां फलान्य् आहरतां वने
अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥

2.111.20

इतीव तैः प्राञ्जलिभिस् तपस्विभिर् द्विजैः कृतस्वस्त्ययनः परंतपः
वनं सभार्यः प्रविवेश राघवः सलक्ष्मणः सूर्य इवाभ्रमण्डलम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc