भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.96

2.96.1

वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च
अभिचक्राम तं देशं रामदर्शनतर्षितः ॥

2.96.2

राजपत्न्यश् च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति
ददृशुस् तत्र तत् तीर्थं रामलक्ष्मणसेवितम् ॥

2.96.3

कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता
सुमित्राम् अब्रवीद् दीना याश् चान्या राजयोषितः ॥

2.96.4

इदं तेषाम् अनाथानां क्लिष्टम् अक्लिष्टकर्मणाम्
वने प्राक् केवलं तीर्थं ये ते निर्विषयीकृताः ॥

2.96.5

इतः सुमित्रे पुत्रस् ते सदा जलम् अतन्द्रितः
स्वयं हरति सौमित्रिर् मम पुत्रस्य कारणात् ॥

2.96.6

दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले
पितुर् इङ्गुदीपिण्याकं न्यस्तम् आयतलोचना ॥

2.96.7

तं भूमौ पितुर् आर्तेन न्यस्तं रामेण वीक्ष्य सा
उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥

2.96.8

इदम् इक्ष्वाकुनाथस्य राघवस्य महात्मनः
राघवेण पितुर् दत्तं पश्यतैतद् यथाविधि ॥

2.96.9

तस्य देवसमानस्य पार्थिवस्य महात्मनः
नैतद् औपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥

2.96.10

चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभुः
कथम् इङ्गुदीपिण्याकं स भुङ्क्ते वसुधाधिपः ॥

2.96.11

अतो दुःखतरं लोके न किंचित् प्रतिभाति मा
यत्र रामः पितुर् दद्याद् इङ्गुदीक्षोदम् ऋद्धिमान् ॥

2.96.12

रामेणेङ्गुदीपिण्याकं पितुर् दत्तं समीक्ष्य मे
कथं दुःखेन हृदयं न स्फोटति सहस्रधा ॥

2.96.13

एवम् आर्तां सपत्न्यस् ता जग्मुर् आश्वास्य तां तदा
ददृशुश् चाश्रमे रामं स्वर्गाच् च्युतम् इवामरम् ॥

2.96.14

सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः
आर्ता मुमुचुर् अश्रूणि सस्वरं शोककर्शिताः ॥

2.96.15

तासां रामः समुत्थाय जग्राह चरणाञ् शुभान्
मातॄणां मनुजव्याघ्रः सर्वासां सत्यसंगरः ॥

2.96.16

ताः पाणिभिः सुखस्पर्शैर् मृद्वङ्गुलितलैः शुभैः
प्रममार्जू रजः पृष्ठाद् रामस्यायतलोचनाः ॥

2.96.17

सौमित्रिर् अपि ताः सर्वा मातॄन् सम्प्रेक्ष्य दुःखितः
अभ्यवादयतासक्तं शनै रामाद् अनन्तरम् ॥

2.96.18

यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः
वृत्तिं दशरथाज् जाते लक्ष्मणे शुभलक्षणे ॥

2.96.19

सीतापि चरणांस् तासाम् उपसंगृह्य दुःखिता
श्वश्रूणाम् अश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥

2.96.20

तां परिष्वज्य दुःखार्तां माता दुहितरं यथा
वनवासकृशां दीनां कौसल्या वाक्यम् अब्रवीत् ॥

2.96.21

विदेहराजस्य सुता स्नुषा दशरथस्य च
रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने ॥

2.96.22

पद्मम् आतपसंतप्तं परिक्लिष्टम् इवोत्पलम्
काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रम् इवाम्बुदैः ॥

2.96.23

मुखं ते प्रेक्ष्य मां शोको दहत्य् अग्निर् इवाश्रयम्
भृशं मनसि वैदेहि व्यसनारणिसम्भवः ॥

2.96.24

ब्रुवन्त्याम् एवम् आर्तायां जनन्यां भरताग्रजः
पादाव् आसाद्य जग्राह वसिष्ठस्य स राघवः ॥

2.96.25

पुरोहितस्याग्निसमस्य तस्य वै बृहस्पतेर् इन्द्र इवामराधिपः
प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः ॥

2.96.26

ततो जघन्यं सहितैः स मन्त्रिभिः पुरप्रधानैश् च सहैव सैनिकैः
जनेन धर्मज्ञतमेन धर्मवान् उपोपविष्टो भरतस् तदाग्रजम् ॥

2.96.27

उपोपविष्टस् तु तदा स वीर्यवांस् तपस्विवेषेण समीक्ष्य राघवम्
श्रिया ज्वलन्तं भरतः कृताञ्जलिर् यथा महेन्द्रः प्रयतः प्रजापतिम् ॥

2.96.28

किम् एष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति
इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलम् उत्तमं तदा ॥

2.96.29

स राघवः सत्यधृतिश् च लक्ष्मणो महानुभावो भरतश् च धार्मिकः
वृताः सुहृद्भिश् च विरेजुर् अध्वरे यथा सदस्यैः सहितास् त्रयो ऽग्नयः ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc