भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.97

2.97.1

तं तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम्
लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥

2.97.2

किम् एतद् इच्छेयम् अहं श्रोतुं प्रव्याहृतं त्वया
यस्मात् त्वम् आगतो देशम् इमं चीरजटाजिनी ॥

2.97.3

यन्निमित्तम् इमं देशं कृष्णाजिनजटाधरः
हित्वा राज्यं प्रविष्टस् त्वं तत् सर्वं वक्तुम् अर्हसि ॥

2.97.4

इत्य् उक्तः केकयीपुत्रः काकुत्स्थेन महात्मना
प्रगृह्य बलवद् भूयः प्राञ्जलिर् वाक्यम् अब्रवीत् ॥

2.97.5

आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम्
गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः ॥

2.97.6

स्त्रिया नियुक्तः कैकेय्या मम मात्रा परंतप
चकार सुमहत् पापम् इदम् आत्मयशोहरम् ॥

2.97.7

सा राज्यफलम् अप्राप्य विधवा शोककर्शिता
पतिष्यति महाघोरे निरये जननी मम ॥

2.97.8

तस्य मे दासभूतस्य प्रसादं कर्तुम् अर्हसि
अभिषिञ्चस्व चाद्यैव राज्येन मघवान् इव ॥

2.97.9

इमाः प्रकृतयः सर्वा विधवा मातरश् च याः
त्वत्सकाशम् अनुप्राप्ताः प्रसादं कर्तुम् अर्हसि ॥

2.97.10

तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद
राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु ॥

2.97.11

भवत्व् अविधवा भूमिः समग्रा पतिना त्वया
शशिना विमलेनेव शारदी रजनी यथा ॥

2.97.12

एभिश् च सचिवैः सार्धं शिरसा याचितो मया
भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुम् अर्हसि ॥

2.97.13

तद् इदं शाश्वतं पित्र्यं सर्वं सचिवमण्डलम्
पूजितं पुरुषव्याघ्र नातिक्रमितुम् उत्सहे ॥

2.97.14

एवम् उक्त्वा महाबाहुः सबाष्पः केकयीसुतः
रामस्य शिरसा पादौ जग्राह भरतः पुनः ॥

2.97.15

तं मत्तम् इव मातंगं निःश्वसन्तं पुनः पुनः
भ्रातरं भरतं रामः परिष्वज्येदम् अब्रवीत् ॥

2.97.16

कुलीनः सत्त्वसम्पन्नस् तेजस्वी चरितव्रतः
राज्यहेतोः कथं पापम् आचरेत् त्वद्विधो जनः ॥

2.97.17

न दोषं त्वयि पश्यामि सूक्ष्मम् अप्य् अरिसूदन
न चापि जननीं बाल्यात् त्वं विगर्हितुम् अर्हसि ॥

2.97.18

यावत् पितरि धर्मज्ञ गौरवं लोकसत्कृते
तावद् धर्मभृतां श्रेष्ठ जनन्याम् अपि गौरवम् ॥

2.97.19

एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव
मातापितृभ्याम् उक्तो ऽहं कथम् अन्यत् समाचरे ॥

2.97.20

त्वया राज्यम् अयोध्यायां प्राप्तव्यं लोकसत्कृतम्
वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥

2.97.21

एवं कृत्वा महाराजो विभागं लोकसंनिधौ
व्यादिश्य च महातेजा दिवं दशरथो गतः ॥

2.97.22

स च प्रमाणं धर्मात्मा राजा लोकगुरुस् तव
पित्रा दत्तं यथाभागम् उपभोक्तुं त्वम् अर्हसि ॥

2.97.23

चतुर्दश समाः सौम्य दण्डकारण्यम् आश्रितः
उपभोक्ष्ये त्व् अहं दत्तं भागं पित्रा महात्मना ॥

2.97.24

यद् अब्रवीन् मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः
तद् एव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावम् अव्ययम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc