भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.95

2.95.1

रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह
किं मे धर्माद् विहीनस्य राजधर्मः करिष्यति ॥

2.95.2

शाश्वतो ऽयं सदा धर्मः स्थितो ऽस्मासु नरर्षभ
ज्येष्ठपुत्रे स्थिते राजन् न कनीयान् भवेन् नृपः ॥

2.95.3

स समृद्धां मया सार्धम् अयोध्यां गच्छ राघव
अभिषेचय चात्मानं कुलस्यास्य भवाय नः ॥

2.95.4

राजानं मानुषं प्राहुर् देवत्वे संमतो मम
यस्य धर्मार्थसहितं वृत्तम् आहुर् अमानुषम् ॥

2.95.5

केकयस्थे च मयि तु त्वयि चारण्यम् आश्रिते
दिवम् आर्य गतो राजा यायजूकः सतां मतः ॥

2.95.6

उत्तिष्ठ पुरुषव्याघ्र क्रियताम् उदकं पितुः
अहं चायं च शत्रुघ्नः पूर्वम् एव कृतोदकौ ॥

2.95.7

प्रियेण किल दत्तं हि पितृलोकेषु राघव
अक्षय्यं भवतीत्य् आहुर् भवांश् चैव पितुः प्रियः ॥

2.95.8

तां श्रुत्वा करुणां वाचं पितुर् मरणसंहिताम्
राघवो भरतेनोक्तां बभूव गतचेतनः ॥

2.95.9

वाग्वज्रं भरतेनोक्तम् अमनोज्ञं परंतपः
प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः
वने परशुना कृत्तस् तथा भुवि पपात ह ॥

2.95.10

तथा हि पतितं रामं जगत्यां जगतीपतिम्
कूलघातपरिश्रान्तं प्रसुप्तम् इव कुञ्जरम् ॥

2.95.11

भ्रातरस् ते महेष्वासं सर्वतः शोककर्शितम्
रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै ॥

2.95.12

स तु संज्ञां पुनर् लब्ध्वा नेत्राभ्याम् आस्रम् उत्सृजन्
उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम् ॥

2.95.13

किं नु तस्य मया कार्यं दुर्जातेन महात्मनः
यो मृतो मम शोकेन न मया चापि संस्कृतः ॥

2.95.14

अहो भरत सिद्धार्थो येन राजा त्वयानघ
शत्रुघेण च सर्वेषु प्रेतकृत्येषु सत्कृतः ॥

2.95.15

निष्प्रधानाम् अनेकाग्रां नरेन्द्रेण विनाकृताम्
निवृत्तवनवासो ऽपि नायोध्यां गन्तुम् उत्सहे ॥

2.95.16

समाप्तवनवासं माम् अयोध्यायां परंतप
को नु शासिष्यति पुनस् ताते लोकान्तरं गते ॥

2.95.17

पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्य् आह सान्त्वयन्
वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्य् अहम् ॥

2.95.18

एवम् उक्त्वा स भरतं भार्याम् अभ्येत्य राघवः
उवाच शोकसंतप्तः पूर्णचन्द्रनिभाननाम् ॥

2.95.19

सीते मृतस् ते श्वशुरः पित्रा हीनो ऽसि लक्ष्मण
भरतो दुःखम् आचष्टे स्वर्गतं पृथिवीपतिम् ॥

2.95.20

सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम्
उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ॥

2.95.21

आनयेङ्गुदीपिण्याकं चीरम् आहर चोत्तरम्
जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥

2.95.22

सीता पुरस्ताद् व्रजतु त्वम् एनाम् अभितो व्रज
अहं पश्चाद् गमिष्यामि गतिर् ह्य् एषा सुदारुणा ॥

2.95.23

ततो नित्यानुगस् तेषां विदितात्मा महामतिः
मृदुर् दान्तश् च शान्तश् च रामे च दृढभक्तिमान् ॥

2.95.24

सुमन्त्रस् तैर् नृपसुतैः सार्धम् आश्वास्य राघवम्
अवातारयद् आलम्ब्य नदीं मन्दाकिनीं शिवाम् ॥

2.95.25

ते सुतीर्थां ततः कृच्छ्राद् उपागम्य यशस्विनः
नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ॥

2.95.26

शीघ्रस्रोतसम् आसाद्य तीर्थं शिवम् अकर्दमम्
सिषिचुस् तूदकं राज्ञे तत एतद् भवत्व् इति ॥

2.95.27

प्रगृह्य च महीपालो जलपूरितम् अञ्जलिम्
दिशं याम्याम् अभिमुखो रुदन् वचनम् अब्रवीत् ॥

2.95.28

एतत् ते राजशार्दूल विमलं तोयम् अक्षयम्
पितृलोकगतस्याद्य मद्दत्तम् उपतिष्ठतु ॥

2.95.29

ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य स राघवः
पितुश् चकार तेजस्वी निवापं भ्रातृभिः सह ॥

2.95.30

ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे
न्यस्य रामः सुदुःखार्तो रुदन् वचनम् अब्रवीत् ॥

2.95.31

इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम्
यदन्नः पुरुषो भवति तदन्नास् तस्य देवताः ॥

2.95.32

ततस् तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात्
आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥

2.95.33

ततः पर्णकुटीद्वारम् आसाद्य जगतीपतिः
परिजग्राह पाणिभ्याम् उभौ भरतलक्ष्मणौ ॥

2.95.34

तेषां तु रुदतां शब्दात् प्रतिश्रुत्काभवद् गिरौ
भ्रातॄणां सह वैदेह्या सिंहानां नर्दताम् इव ॥

2.95.35

विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः
अब्रुवंश् चापि रामेण भरतः संगतो ध्रुवम्
तेषाम् एव महाञ् शब्दः शोचतां पितरं मृतम् ॥

2.95.36

अथ वासान् परित्यज्य तं सर्वे ऽभिमुखाः स्वनम्
अप्य् एकमनसो जग्मुर् यथास्थानं प्रधाविताः ॥

2.95.37

हयैर् अन्ये गजैर् अन्ये रथैर् अन्ये स्वलंकृतैः
सुकुमारास् तथैवान्ये पद्भिर् एव नरा ययुः ॥

2.95.38

अचिरप्रोषितं रामं चिरविप्रोषितं यथा
द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् ॥

2.95.39

भ्रातॄणां त्वरितास् ते तु द्रष्टुकामाः समागमम्
ययुर् बहुविधैर् यानैः खुरनेमिसमाकुलैः ॥

2.95.40

सा भूमिर् बहुभिर् यानैः खुरनेमिसमाहता
मुमोच तुमुलं शब्दं द्यौर् इवाभ्रसमागमे ॥

2.95.41

तेन वित्रासिता नागाः करेणुपरिवारिताः
आवासयन्तो गन्धेन जग्मुर् अन्यद् वनं ततः ॥

2.95.42

वराहमृगसिंहाश् च महिषाः सर्क्षवानराः
व्याघ्रगोकर्णगवया वित्रेषुः पृषतैः सह ॥

2.95.43

रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाः
तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः ॥

2.95.44

तेन शब्देन वित्रस्तैर् आकाशं पक्षिभिर् वृतम्
मनुष्यैर् आवृता भूमिर् उभयं प्रबभौ तदा ॥

2.95.45

तान् नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान्
पर्यष्वजत धर्मज्ञः पितृवन् मातृवच् च सः ॥

2.95.46

स तत्र कांश्चित् परिषस्वजे नरान् नराश् च केचित् तु तम् अभ्यवादयन्
चकार सर्वान् सवयस्यबान्धवान् यथार्हम् आसाद्य तदा नृपात्मजः ॥

2.95.47

ततः स तेषां रुदतां महात्मनां भुवं च खं चानुविनादयन् स्वनः
गुहा गिरीणां च दिशश् च संततं मृदङ्गघोषप्रतिमो विशुश्रुवे ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc