भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.94

2.94.1

आघ्राय रामस् तं मूर्ध्नि परिष्वज्य च राघवः
अङ्के भरतम् आरोप्य पर्यपृच्छत् समाहितः ॥

2.94.2

क्व नु ते ऽभूत् पिता तात यद् अरण्यं त्वम् आगतः
न हि त्वं जीवतस् तस्य वनम् आगन्तुम् अर्हसि ॥

2.94.3

चिरस्य बत पश्यामि दूराद् भरतम् आगतम्
दुष्प्रतीकम् अरण्ये ऽस्मिन् किं तात वनम् आगतः ॥

2.94.4

कच्चिद् दशरथो राजा कुशली सत्यसंगरः
राजसूयाश्वमेधानाम् आहर्ता धर्मनिश्चयः ॥

2.94.5

स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः
इक्ष्वाकूणाम् उपाध्यायो यथावत् तात पूज्यते ॥

2.94.6

तात कच्चिच् च कौसल्या सुमित्रा च प्रजावती
सुखिनी कच्चिद् आर्या च देवी नन्दति कैकयी ॥

2.94.7

कच्चिद् विनयसम्पन्नः कुलपुत्रो बहुश्रुतः
अनसूयुर् अनुद्रष्टा सत्कृतस् ते पुरोहितः ॥

2.94.8

कच्चिद् अग्निषु ते युक्तो विधिज्ञो मतिमान् ऋजुः
हुतं च होष्यमाणं च काले वेदयते सदा ॥

2.94.9

इष्वस्त्रवरसम्पन्नम् अर्थशास्त्रविशारदम्
सुधन्वानम् उपाध्यायं कच्चित् त्वं तात मन्यसे ॥

2.94.10

कच्चिद् आत्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः
कुलीनाश् चेङ्गितज्ञाश् च कृतास् ते तात मन्त्रिणः ॥

2.94.11

मन्त्रो विजयमूलं हि राज्ञां भवति राघव
सुसंवृतो मन्त्रधरैर् अमात्यैः शास्त्रकोविदैः ॥

2.94.12

कच्चिन् निद्रावशं नैषि कच्चित् काले विबुध्यसे
कच्चिच् चापररात्रिषु चिन्तयस्य् अर्थनैपुणम् ॥

2.94.13

कच्चिन् मन्त्रयसे नैकः कच्चिन् न बहुभिः सह
कच्चित् ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥

2.94.14

कच्चिद् अर्थं विनिश्चित्य लघुमूलं महोदयम्
क्षिप्रम् आरभसे कर्तुं न दीर्घयसि राघव ॥

2.94.15

कच्चित् तु सुकृतान्य् एव कृतरूपाणि वा पुनः
विदुस् ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ॥

2.94.16

कच्चिन् न तर्कैर् युक्त्वा वा ये चाप्य् अपरिकीर्तिताः
त्वया वा तव वामात्यैर् बुध्यते तात मन्त्रितम् ॥

2.94.17

कच्चित् सहस्रान् मूर्खाणाम् एकम् इच्छसि पण्डितम्
पण्डितो ह्य् अर्थकृच्छ्रेषु कुर्यान् निःश्रेयसं महत् ॥

2.94.18

सहस्राण्य् अपि मूर्खाणां यद्य् उपास्ते महीपतिः
अथ वाप्य् अयुतान्य् एव नास्ति तेषु सहायता ॥

2.94.19

एको ऽप्य् अमात्यो मेधावी शूरो दक्षो विचक्षणः
राजानं राजमात्रं वा प्रापयेन् महतीं श्रियम् ॥

2.94.20

कच्चिन् मुख्या महत्स्व् एव मध्यमेषु च मध्यमाः
जघन्याश् च जघन्येषु भृत्याः कर्मसु योजिताः ॥

2.94.21

अमात्यान् उपधातीतान् पितृपैतामहाञ् शुचीन्
श्रेष्ठाञ् श्रेष्ठेषु कच्चित् त्वं नियोजयसि कर्मसु ॥

2.94.22

कच्चित् त्वां नावजानन्ति याजकाः पतितं यथा
उग्रप्रतिग्रहीतारं कामयानम् इव स्त्रियः ॥

2.94.23

उपायकुशलं वैद्यं भृत्यसंदूषणे रतम्
शूरम् ऐश्वर्यकामं च यो न हन्ति स वध्यते ॥

2.94.24

कच्चिद् धृष्टश् च शूरश् च धृतिमान् मतिमाञ् शुचिः
कुलीनश् चानुरक्तश् च दक्षः सेनापतिः कृतः ॥

2.94.25

बलवन्तश् च कच्चित् ते मुख्या युद्धविशारदाः
दृष्टापदाना विक्रान्तास् त्वया सत्कृत्य मानिताः ॥

2.94.26

कच्चिद् बलस्य भक्तं च वेतनं च यथोचितम्
सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥

2.94.27

कालातिक्रमणे ह्य् एव भक्तवेतनयोर् भृताः
भर्तुः कुप्यन्ति दुष्यन्ति सो ऽनर्थः सुमहान् स्मृतः ॥

2.94.28

कच्चित् सर्वे ऽनुरक्तास् त्वां कुलपुत्राः प्रधानतः
कच्चित् प्राणांस् तवार्थेषु संत्यजन्ति समाहिताः ॥

2.94.29

कच्चिज् जानपदो विद्वान् दक्षिणः प्रतिभानवान्
यथोक्तवादी दूतस् ते कृतो भरत पण्डितः ॥

2.94.30

कच्चिद् अष्टादशान्य् एषु स्वपक्षे दश पञ्च च
त्रिभिस् त्रिभिर् अविज्ञातैर् वेत्सि तीर्थानि चारकैः ॥

2.94.31

कच्चिद् व्यपास्तान् अहितान् प्रतियातांश् च सर्वदा
दुर्बलान् अनवज्ञाय वर्तसे रिपुसूदन ॥

2.94.32

कच्चिन् न लोकायतिकान् ब्राह्मणांस् तात सेवसे
अनर्थकुशला ह्य् एते बालाः पण्डितमानिनः ॥

2.94.33

धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः
बुद्धिमान् वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥

2.94.34

वीरैर् अध्युषितां पूर्वम् अस्माकं तात पूर्वकैः
सत्यनामां दृढद्वारां हस्त्यश्वरथसंकुलाम् ॥

2.94.35

ब्राह्मणैः क्षत्रियैर् वैश्यैः स्वकर्मनिरतैः सदा
जितेन्द्रियैर् महोत्साहैर् वृताम् आर्यैः सहस्रशः ॥

2.94.36

प्रासादैर् विविधाकारैर् वृतां वैद्यजनाकुलाम्
कच्चित् समुदितां स्फीताम् अयोध्यां परिरक्षसि ॥

2.94.37

कच्चिच् चैत्यशतैर् जुष्टः सुनिविष्टजनाकुलः
देवस्थानैः प्रपाभिश् च तडागैश् चोपशोभितः ॥

2.94.38

प्रहृष्टनरनारीकः समाजोत्सवशोभितः
सुकृष्टसीमा पशुमान् हिंसाभिर् परिवर्जितः ॥

2.94.39

अदेवमातृको रम्यः श्वापदैः परिवर्जितः
कच्चिज् जनपदः स्फीतः सुखं वसति राघव ॥

2.94.40

कच्चित् ते दयिताः सर्वे कृषिगोरक्षजीविनः
वार्त्तायां संश्रितस् तात लोको हि सुखम् एधते ॥

2.94.41

तेषां गुप्तिपरीहारैः कच्चित् ते भरणं कृतम्
रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥

2.94.42

कच्चित् स्त्रियः सान्त्वयसि कच्चित् ताश् च सुरक्षिताः
कच्चिन् न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥

2.94.43

कच्चिन् नागवनं गुप्तं कुञ्जराणां च तृप्यसि
कच्चिद् दर्शयसे नित्यं मनुष्याणां विभूषितम्
उत्थायोत्थाय पूर्वाह्णे राजपुत्रो महापथे ॥

2.94.44

कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः
यन्त्रैश् च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥

2.94.45

आयस् ते विपुलः कच्चित् कच्चिद् अल्पतरो व्ययः
अपात्रेषु न ते कच्चित् कोशो गच्छति राघव ॥

2.94.46

देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च
योधेषु मित्रवर्गेषु कच्चिद् गच्छति ते व्ययः ॥

2.94.47

कच्चिद् आर्यो विशुद्धात्मा क्षारितश् चोरकर्मणा
अपृष्टः शास्त्रकुशलैर् न लोभाद् बध्यते शुचिः ॥

2.94.48

गृहीतश् चैव पृष्टश् च काले दृष्टः सकारणः
कच्चिन् न मुच्यते चोरो धनलोभान् नरर्षभ ॥

2.94.49

व्यसने कच्चिद् आढ्यस्य दुर्गतस्य च राघव
अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥

2.94.50

यानि मिथ्याभिशस्तानां पतन्त्य् अस्राणि राघव
तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थम् अनुशासतः ॥

2.94.51

कच्चिद् वृद्धांश् च बालांश् च वैद्यमुख्यांश् च राघव
दानेन मनसा वाचा त्रिभिर् एतैर् बुभूषसे ॥

2.94.52

कच्चिद् गुरूंश् च वृद्धांश् च तापसान् देवतातिथीन्
चैत्यांश् च सर्वान् सिद्धार्थान् ब्राह्मणांश् च नमस्यसि ॥

2.94.53

कच्चिद् अर्थेन वा धर्मं धर्मं धर्मेण वा पुनः
उभौ वा प्रीतिलोभेन कामेन न विबाधसे ॥

2.94.54

कच्चिद् अर्थं च धर्मं च कामं च जयतां वर
विभज्य काले कालज्ञ सर्वान् भरत सेवसे ॥

2.94.55

कच्चित् ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः
आशंसन्ते महाप्राज्ञ पौरजानपदैः सह ॥

2.94.56

नास्तिक्यम् अनृतं क्रोधं प्रमादं दीर्घसूत्रताम्
अदर्शनं ज्ञानवताम् आलस्यं पञ्चवृत्तिताम् ॥

2.94.57

एकचिन्तनम् अर्थानाम् अनर्थज्ञैश् च मन्त्रणम्
निश्चितानाम् अनारम्भं मन्त्रस्यापरिरक्षणम् ॥

2.94.58

मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वशः
कच्चित् त्वं वर्जयस्य् एतान् राजदोषांश् चतुर्दश ॥

2.94.59

कच्चित् स्वादुकृतं भोज्यम् एको नाश्नासि राघव
कच्चिद् आशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc