भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.93

2.93.1

निविष्टायां तु सेनायाम् उत्सुको भरतस् तदा
जगाम भ्रातरं द्रष्टुं शत्रुघ्नम् अनुदर्शयन् ॥

2.93.2

ऋषिं वसिष्ठं संदिश्य मातॄन् मे शीघ्रम् आनय
इति त्वरितम् अग्रे स जगाम गुरुवत्सलः ॥

2.93.3

सुमन्त्रस् त्व् अपि शत्रुघ्नम् अदूराद् अन्वपद्यत
रामदर्शनजस् तर्षो भरतस्येव तस्य च ॥

2.93.4

गच्छन्न् एवाथ भरतस् तापसालयसंस्थिताम्
भ्रातुः पर्णकुटीं श्रीमान् उटजं च ददर्श ह ॥

2.93.5

शालायास् त्व् अग्रतस् तस्या ददर्श भरतस् तदा
काष्ठानि चावभग्नानि पुष्पाण्य् अवचितानि च ॥

2.93.6

ददर्श च वने तस्मिन् महतः संचयान् कृतान्
मृगाणां महिषाणां च करीषैः शीतकारणात् ॥

2.93.7

गच्छन् एव महाबाहुर् द्युतिमान् भरतस् तदा
शत्रुघ्नं चाब्रवीद् धृष्टस् तान् अमात्यांश् च सर्वशः ॥

2.93.8

मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यम् अब्रवीत्
नातिदूरे हि मन्ये ऽहं नदीं मन्दाकिनीम् इतः ॥

2.93.9

उच्चैर् बद्धानि चीराणि लक्ष्मणेन भवेद् अयम्
अभिज्ञानकृतः पन्था विकाले गन्तुम् इच्छता ॥

2.93.10

इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्
शैलपार्श्वे परिक्रान्तम् अन्योन्यम् अभिगर्जताम् ॥

2.93.11

यम् एवाधातुम् इच्छन्ति तापसाः सततं वने
तस्यासौ दृश्यते धूमः संकुलः कृष्णवर्त्मनः ॥

2.93.12

अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम्
आर्यं द्रक्ष्यामि संहृष्टो महर्षिम् इव राघवम् ॥

2.93.13

अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः
मन्दाकिनीम् अनुप्राप्तस् तं जनं चेदम् अब्रवीत् ॥

2.93.14

जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः
जनेन्द्रो निर्जनं प्राप्य धिन् मे जन्म सजीवितम् ॥

2.93.15

मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः
सर्वान् कामान् परित्यज्य वने वसति राघवः ॥

2.93.16

इति लोकसमाक्रुष्टः पादेष्व् अद्य प्रसादयन्
रामस्य निपतिष्यामि सीतायाश् च पुनः पुनः ॥

2.93.17

एवं स विलपंस् तस्मिन् वने दशरथात्मजः
ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥

2.93.18

सालतालाश्वकर्णानां पर्णैर् बहुभिर् आवृताम्
विशालां मृदुभिस् तीर्णां कुशैर् वेदिम् इवाध्वरे ॥

2.93.19

शक्रायुधनिकाशैश् च कार्मुकैर् भारसाधनैः
रुक्मपृष्ठैर् महासारैः शोभितां शत्रुबाधकैः ॥

2.93.20

अर्करश्मिप्रतीकाशैर् घोरैस् तूणीगतैः शरैः
शोभितां दीप्तवदनैः सर्पैर् भोगवतीम् इव ॥

2.93.21

महारजतवासोभ्याम् असिभ्यां च विराजिताम्
रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥

2.93.22

गोधाङ्गुलित्रैर् आसक्तैश् चित्रैः काञ्चनभूषितैः
अरिसंघैर् अनाधृष्यां मृगैः सिंहगुहाम् इव ॥

2.93.23

प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम्
ददर्श भरतस् तत्र पुण्यां रामनिवेशने ॥

2.93.24

निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम्
उटजे रामम् आसीनं जटामण्डलधारिणम् ॥

2.93.25

तं तु कृष्णाजिनधरं चीरवल्कलवाससम्
ददर्श रामम् आसीनम् अभितः पावकोपमम् ॥

2.93.26

सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्
पृथिव्याः सगरान्ताया भर्तारं धर्मचारिणम् ॥

2.93.27

उपविष्टं महाबाहुं ब्रह्माणम् इव शाश्वतम्
स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥

2.93.28

तं दृष्ट्वा भरतः श्रीमान् दुःखमोहपरिप्लुतः
अभ्यधावत धर्मात्मा भरतः कैकयीसुतः ॥

2.93.29

दृष्ट्वा च विललापार्तो बाष्पसंदिग्धया गिरा
अशक्नुवन् धारयितुं धैर्याद् वचनम् अब्रवीत् ॥

2.93.30

यः संसदि प्रकृतिभिर् भवेद् युक्त उपासितुम्
वन्यैर् मृगैर् उपासीनः सो ऽयम् आस्ते ममाग्रजः ॥

2.93.31

वासोभिर् बहुसाहस्रैर् यो महात्मा पुरोचितः
मृगाजिने सो ऽयम् इह प्रवस्ते धर्मम् आचरन् ॥

2.93.32

अधारयद् यो विविधाश् चित्राः सुमनसस् तदा
सो ऽयं जटाभारम् इमं सहते राघवः कथम् ॥

2.93.33

यस्य यज्ञैर् यथादिष्टैर् युक्तो धर्मस्य संचयः
शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ॥

2.93.34

चन्दनेन महार्हेण यस्याङ्गम् उपसेवितम्
मलेन तस्याङ्गम् इदं कथम् आर्यस्य सेव्यते ॥

2.93.35

मन्निमित्तम् इदं दुःखं प्राप्तो रामः सुखोचितः
धिग् जीवितं नृशंसस्य मम लोकविगर्हितम् ॥

2.93.36

इत्य् एवं विलपन् दीनः प्रस्विन्नमुखपङ्कजः
पादाव् अप्राप्य रामस्य पपात भरतो रुदन् ॥

2.93.37

दुःखाभितप्तो भरतो राजपुत्रो महाबलः
उक्त्वार्येति सकृद् दीनं पुनर् नोवाच किंचन ॥

2.93.38

बाष्पापिहितकण्ठश् च प्रेक्ष्य रामं यशस्विनम्
आर्येत्य् एवाभिसंक्रुश्य व्याहर्तुं नाशकत् ततः ॥

2.93.39

शत्रुघ्नश् चापि रामस्य ववन्दे चरणौ रुदन्
ताव् उभौ स समालिङ्ग्य रामो ऽप्य् अश्रूण्य् अवर्तयत् ॥

2.93.40

ततः सुमन्त्रेण गुहेन चैव समीयतू राजसुताव् अरण्ये
दिवाकरश् चैव निशाकरश् च यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥

2.93.41

तान् पार्थिवान् वारणयूथपाभान् समागतांस् तत्र महत्य् अरण्ये
वनौकसस् ते ऽपि समीक्ष्य सर्वे ऽप्य् अश्रूण्य् अमुञ्चन् प्रविहाय हर्षम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc