रामायण (संशोधित पाठ) · अध्याय 2.92
निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः
अभिगन्तुं स काकुत्स्थम् इयेष गुरुवर्तकम् ॥
निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्
भरतो भ्रातरं वाक्यं शत्रुघ्नम् इदम् अब्रवीत् ॥
क्षिप्रं वनम् इदं सौम्य नरसंघैः समन्ततः
लुब्धैश् च सहितैर् एभिस् त्वम् अन्वेषितुम् अर्हसि ॥
यावन् न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्
वैदेहीं वा महाभागां न मे शान्तिर् भविष्यति ॥
यावन् न चन्द्रसंकाशं द्रक्ष्यामि शुभम् आननम्
भ्रातुः पद्मपलाशाक्षं न मे शान्तिर् भविष्यति ॥
यावन् न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ
शिरसा धारयिष्यामि न मे शान्तिर् भविष्यति ॥
यावन् न राज्ये राज्यार्हः पितृपैतामहे स्थितः
अभिषेकजलक्लिन्नो न मे शान्तिर् भविष्यति ॥
कृतकृत्या महाभागा वैदेही जनकात्मजा
भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति ॥
सुभगश् चित्रकूटो ऽसौ गिरिराजोपमो गिरिः
यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने ॥
कृतकार्यम् इदं दुर्गं वनं व्यालनिषेवितम्
यद् अध्यास्ते महातेजा रामः शस्त्रभृतां वरः ॥
एवम् उक्त्वा महातेजा भरतः पुरुषर्षभः
पद्भ्याम् एव महातेजाः प्रविवेश महद् वनम् ॥
स तानि द्रुमजालानि जातानि गिरिसानुषु
पुष्पिताग्राणि मध्येन जगाम वदतां वरः ॥
स गिरेश् चित्रकूटस्य सालम् आसाद्य पुष्पितम्
रामाश्रमगतस्याग्नेर् ददर्श ध्वजम् उच्छ्रितम् ॥
तं दृष्ट्वा भरतः श्रीमान् मुमोद सहबान्धवः
अत्र राम इति ज्ञात्वा गतः पारम् इवाम्भसः ॥
स चित्रकूटे तु गिरौ निशाम्य रामाश्रमं पुण्यजनोपपन्नम्
गुहेन सार्धं त्वरितो जगाम पुनर् निवेश्यैव चमूं महात्मा ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0