रामायण (संशोधित पाठ) · अध्याय 2.90
तथा तत्रासतस् तस्य भरतस्योपयायिनः
सैन्यरेणुश् च शब्दश् च प्रादुरास्तां नभःस्पृशौ ॥
एतस्मिन्न् अन्तरे त्रस्ताः शब्देन महता ततः
अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर् दिशः ॥
स तं सैन्यसमुद्भूतं शब्दं शुश्रव राघवः
तांश् च विप्रद्रुतान् सर्वान् यूथपान् अन्ववैक्षत ॥
तांश् च विद्रवतो दृष्ट्वा तं च श्रुत्वा स निःस्वनम्
उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसम् ॥
हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास् त्वया
भीमस्तनितगम्भीरस् तुमुलः श्रूयते स्वनः ॥
राजा वा राजमात्रो वा मृगयाम् अटते वने
अन्यद् वा श्वापदं किंचित् सौमित्रे ज्ञातुम् अर्हसि
सर्वम् एतद् यथातत्त्वम् अचिराज् ज्ञातुम् अर्हसि ॥
स लक्ष्मणः संत्वरितः सालम् आरुह्य पुष्पितम्
प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशम् अवैक्षत ॥
उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम्
रथाश्वगजसम्बाधां यत्तैर् युक्तां पदातिभिः ॥
ताम् अश्वगजसम्पूर्णां रथध्वजविभूषिताम्
शशंस सेनां रामाय वचनं चेदम् अब्रवीत् ॥
अग्निं संशमयत्व् आर्यः सीता च भजतां गुहाम्
सज्यं कुरुष्व चापं च शरांश् च कवचं तथा ॥
तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह
अङ्गावेक्षस्व सौमित्रे कस्यैतां मन्यसे चमूम् ॥
एवम् उक्तस् तु रामेण लक्ष्मणो वाक्यम् अब्रवीत्
दिधक्षन्न् इव तां सेनां रुषितः पावको यथा ॥
सम्पन्नं राज्यम् इच्छंस् तु व्यक्तं प्राप्याभिषेचनम्
आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः ॥
एष वै सुमहाञ् श्रीमान् विटपी संप्रकाशते
विराजत्य् उद्गतस्कन्धः कोविदारध्वजो रथे ॥
भजन्त्य् एते यथाकामम् अश्वान् आरुह्य शीघ्रगान्
एते भ्राजन्ति संहृष्टा गजान् आरुह्य सादिनः ॥
गृहीतधनुषौ चावां गिरिं वीर श्रयावहे
अपि नौ वशम् आगच्छेत् कोविदारध्वजो रणे ॥
अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत्
त्वया राघव सम्प्राप्तं सीतया च मया तथा ॥
यन्निमित्तं भवान् राज्याच् च्युतो राघव शाश्वतात्
सम्प्राप्तो ऽयम् अरिर् वीर भरतो वध्य एव मे ॥
भरतस्य वधे दोषं नाहं पश्यामि राघव
पूर्वापकारिणां त्यागे न ह्य् अधर्मो विधीयते
एतस्मिन् निहते कृत्स्नाम् अनुशाधि वसुंधराम् ॥
अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका
मया पश्येत् सुदुःखार्ता हस्तिभग्नम् इव द्रुमम् ॥
कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम्
कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥
अद्येमं संयतं क्रोधम् असत्कारं च मानद
मोक्ष्यामि शत्रुसैन्येषु कक्षेष्व् इव हुताशनम् ॥
अद्यैतच् चित्रकूटस्य काननं निशितैः शरैः
भिन्दञ् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥
शरैर् निर्भिन्नहृदयान् कुञ्जरांस् तुरगांस् तथा
श्वापदाः परिकर्षन्तु नरांश् च निहतान् मया ॥
शराणां धनुषश् चाहम् अनृणो ऽस्मि महावने
ससैन्यं भरतं हत्वा भविष्यामि न संशयः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0