भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.91

2.91.1

सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम्
रामस् तु परिसान्त्व्याथ वचनं चेदम् अब्रवीत् ॥

2.91.2

किम् अत्र धनुषा कार्यम् असिना वा सचर्मणा
महेष्वासे महाप्राज्ञे भरते स्वयम् आगते ॥

2.91.3

प्राप्तकालं यद् एषो ऽस्मान् भरतो द्रष्टुम् इच्छति
अस्मासु मनसाप्य् एष नाहितं किंचिद् आचरेत् ॥

2.91.4

विप्रियं कृतपूर्वं ते भरतेन कदा न किम्
ईदृशं वा भयं ते ऽद्य भरतं यो ऽत्र शङ्कसे ॥

2.91.5

न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः
अहं ह्य् अप्रियम् उक्तः स्यां भरतस्याप्रिये कृते ॥

2.91.6

कथं नु पुत्राः पितरं हन्युः कस्यांचिद् आपदि
भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणम् आत्मनः ॥

2.91.7

यदि राज्यस्य हेतोस् त्वम् इमां वाचं प्रभाषसे
वक्ष्यामि भरतं दृष्ट्वा राज्यम् अस्मै प्रदीयताम् ॥

2.91.8

उच्यमानो हि भरतो मया लक्ष्मण तत्त्वतः
राज्यम् अस्मै प्रयच्छेति बाढम् इत्य् एव वक्ष्यति ॥

2.91.9

तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः
लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया ॥

2.91.10

व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह
एष मन्ये महाबाहुर् इहास्मान् द्रष्टुम् आगतः ॥

2.91.11

वनवासम् अनुध्याय गृहाय प्रतिनेष्यति
इमां वाप्य् एष वैदेहीम् अत्यन्तसुखसेविनीम् ॥

2.91.12

एतौ तौ संप्रकाशेते गोत्रवन्तौ मनोरमौ
वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥

2.91.13

स एष सुमहाकायः कम्पते वाहिनीमुखे
नागः शत्रुंजयो नाम वृद्धस् तातस्य धीमतः ॥

2.91.14

अवतीर्य तु सालाग्रात् तस्मात् स समितिंजयः
लक्ष्मणः प्राञ्जलिर् भूत्वा तस्थौ रामस्य पार्श्वतः ॥

2.91.15

भरतेनाथ संदिष्टा सम्मर्दो न भवेद् इति
समन्तात् तस्य शैलस्य सेनावासम् अकल्पयत् ॥

2.91.16

अध्यर्धम् इक्ष्वाकुचमूर् योजनं पर्वतस्य सा
पार्श्वे न्यविशद् आवृत्य गजवाजिरथाकुला ॥

2.91.17

सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्पम्
प्रसादनार्थं रघुनन्दनस्य विरोचते नीतिमता प्रणीता ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc