रामायण (संशोधित पाठ) · अध्याय 2.89
अथ शैलाद् विनिष्क्रम्य मैथिलीं कोसलेश्वरः
अदर्शयच् छुभजलां रम्यां मन्दाकिनीं नदीम् ॥
अब्रवीच् च वरारोहां चारुचन्द्रनिभाननाम्
विदेहराजस्य सुतां रामो राजीवलोचनः ॥
विचित्रपुलिनां रम्यां हंससारससेविताम्
कुसुमैर् उपसंपन्नां पश्य मन्दाकिनीं नदीम् ॥
नानाविधैस् तीररुहैर् वृतां पुष्पफलद्रुमैः
राजन्तीं राजराजस्य नलिनीम् इव सर्वतः ॥
मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम्
तीर्थानि रमणीयानि रतिं संजनयन्ति मे ॥
जटाजिनधराः काले वल्कलोत्तरवाससः
ऋषयस् त्व् अवगाहन्ते नदीं मन्दाकिनीं प्रिये ॥
आदित्यम् उपतिष्ठन्ते नियमाद् ऊर्ध्वबाहवः
एते ऽपरे विशालाक्षि मुनयः संशितव्रताः ॥
मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः
पादपैः पत्त्रपुष्पाणि सृजद्भिर् अभितो नदीम् ॥
कच्चिन् मणिनिकाशोदां कच्चित् पुलिनशालिनीम्
कच्चित् सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥
निर्धूतान् वायुना पश्य विततान् पुष्पसंचयान्
पोप्लूयमानान् अपरान् पश्य त्वं जलमध्यगान् ॥
तांश् चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः
अधिरोहन्ति कल्याणि निष्कूजन्तः शुभा गिरः ॥
दर्शनं चित्रकूटस्य मन्दाकिन्याश् च शोभने
अधिकं पुरवासाच् च मन्ये च तव दर्शनात् ॥
विधूतकलुषैः सिद्धैस् तपोदमशमान्वितैः
नित्यविक्षोभितजलां विगाहस्व मया सह ॥
सखीवच् च विगाहस्व सीते मन्दाकिनीम् इमाम्
कमलान्य् अवमज्जन्ती पुष्कराणि च भामिनि ॥
त्वं पौरजनवद् व्यालान् अयोध्याम् इव पर्वतम्
मन्यस्व वनिते नित्यं सरयूवद् इमां नदीम् ॥
लक्ष्मणश् चैव धर्मात्मा मन्निदेशे व्यवस्थितः
त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥
उपस्पृशंस् त्रिषवणं मधुमूलफलाशनः
नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह ॥
इमां हि रम्यां गजयूथलोलितां निपीततोयां गजसिंहवानरैः
सुपुष्पितैः पुष्पधरैर् अलंकृतां न सो ऽस्ति यः स्यान् न गतक्रमः सुखी ॥
इतीव रामो बहुसंगतं वचः प्रियासहायः सरितं प्रति ब्रुवन्
चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्धनः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0