रामायण (संशोधित पाठ) · अध्याय 2.88
दीर्घकालोषितस् तस्मिन् गिरौ गिरिवनप्रियः
वैदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं विलोभयन् ॥
अथ दाशरथिश् चित्रं चित्रकूटम् अदर्शयत्
भार्याम् अमरसंकाशः शचीम् इव पुरंदरः ॥
न राज्याद् भ्रंशनं भद्रे न सुहृद्भिर् विनाभवः
मनो मे बाधते दृष्ट्वा रमणीयम् इमं गिरिम् ॥
पश्येमम् अचलं भद्रे नानाद्विजगणायुतम्
शिखरैः खम् इवोद्विद्धैर् धातुमद्भिर् विभूषितम् ॥
केचिद् रजतसंकाशाः केचित् क्षतजसंनिभाः
पीतमाञ्जिष्ठवर्णाश् च केचिन् मणिवरप्रभाः ॥
पुष्पार्ककेतकाभाश् च केचिज् ज्योतीरसप्रभाः
विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिताः ॥
नानामृगगणद्वीपि तरक्ष्वृक्षगणैर् वृतः
अदुष्टैर् भात्य् अयं शैलो बहुपक्षिसमाकुलः ॥
आम्रजम्ब्वसनैर् लोध्रैः प्रियालैः पनसैर् धवैः
अङ्कोलैर् भव्यतिनिशैर् बिल्वतिन्दुकवेणुभिः ॥
काश्मर्यरिष्टवरणैर् मधूकैस् तिलकैस् तथा
बदर्यामलकैर् नीपैर् वेत्रधन्वनबीजकैः ॥
पुष्पवद्भिः फलोपेतैश् छायावद्भिर् मनोरमैः
एवमादिभिर् आकीर्णः श्रियं पुष्यत्य् अयं गिरिः ॥
शैलप्रस्थेषु रम्येषु पश्येमान् कामहर्षणान्
किंनरान् द्वंद्वशो भद्रे रममाणान् मनस्विनः ॥
शाखावसक्तान् खड्गांश् च प्रवराण्य् अम्बराणि च
पश्य विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ॥
जलप्रपातैर् उद्भेदैर् निस्यन्दैश् च क्वचित् क्वचित्
स्रवद्भिर् भात्य् अयं शैलः स्रवन् मद इव द्विपः ॥
गुहासमीरणो गन्धान् नानापुष्पभवान् वहन्
घ्राणतर्पणम् अभ्येत्य कं नरं न प्रहर्षयेत् ॥
यदीह शरदो ऽनेकास् त्वया सार्धम् अनिन्दिते
लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ॥
बहुपुष्पफले रम्ये नानाद्विजगणायुते
विचित्रशिखरे ह्य् अस्मिन् रतवान् अस्मि भामिनि ॥
अनेन वनवासेन मया प्राप्तं फलद्वयम्
पितुश् चानृणता धर्मे भरतस्य प्रियं तथा ॥
वैदेहि रमसे कच्चिच् चित्रकूटे मया सह
पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ॥
इदम् एवामृतं प्राहू राज्ञां राजर्षयः परे
वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ॥
शिलाः शैलस्य शोभन्ते विशालाः शतशो ऽभितः
बहुला बहुलैर् वर्णैर् नीलपीतसितारुणैः ॥
निशि भान्त्य् अचलेन्द्रस्य हुताशनशिखा इव
ओषध्यः स्वप्रभा लक्ष्म्या भ्राजमानाः सहस्रशः ॥
केचित् क्षयनिभा देशाः केचिद् उद्यानसंनिभाः
केचिद् एकशिला भान्ति पर्वतस्यास्य भामिनि ॥
भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः
चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वतः शिवः ॥
कुष्ठपुंनागतगर भूर्जपत्रोत्तरछदान्
कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ॥
मृदिताश् चापविद्धाश् च दृश्यन्ते कमलस्रजः
कामिभिर् वनिते पश्य फलानि विविधानि च ॥
वस्वौकसारां नलिनीम् अत्येतीवोत्तरान् कुरून्
पर्वतश् चित्रकूटो ऽसौ बहुमूलफलोदकः ॥
इमं तु कालं वनिते विजह्रिवांस् त्वया च सीते सह लक्ष्मणेन च
रतिं प्रपत्स्ये कुलधर्मवर्धिनीं सतां पथि स्वैर् नियमैः परैः स्थितः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0