भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.82

2.82.1

तच् छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः
इङ्गुदीमूलम् आगम्य रामशय्याम् अवेक्ष्य ताम् ॥

2.82.2

अब्रवीज् जननीः सर्वा इह तेन महात्मना
शर्वरी शयिता भूमाव् इदम् अस्य विमर्दितम् ॥

2.82.3

महाभागकुलीनेन महाभागेन धीमता
जातो दशरथेनोर्व्यां न रामः स्वप्तुम् अर्हति ॥

2.82.4

अजिनोत्तरसंस्तीर्णे वरास्तरणसंचये
शयित्वा पुरुषव्याघ्रः कथं शेते महीतले ॥

2.82.5

प्रासादाग्रविमानेषु वलभीषु च सर्वदा
हैमराजतभौमेषु वरास्तरणशालिषु ॥

2.82.6

पुष्पसंचयचित्रेषु चन्दनागरुगन्धिषु
पाण्डुराभ्रप्रकाशेषु शुकसंघरुतेषु च ॥

2.82.7

गीतवादित्रनिर्घोषैर् वराभरणनिःस्वनैः
मृदङ्गवरशब्दैश् च सततं प्रतिबोधितः ॥

2.82.8

बन्दिभिर् वन्दितः काले बहुभिः सूतमागधैः
गाथाभिर् अनुरूपाभिः स्तुतिभिश् च परंतपः ॥

2.82.9

अश्रद्धेयम् इदं लोके न सत्यं प्रतिभाति मा
मुह्यते खलु मे भावः स्वप्नो ऽयम् इति मे मतिः ॥

2.82.10

न नूनं दैवतं किंचित् कालेन बलवत्तरम्
यत्र दाशरथी रामो भूमाव् एवं शयीत सः ॥

2.82.11

विदेहराजस्य सुता सीता च प्रियदर्शना
दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥

2.82.12

इयं शय्या मम भ्रातुर् इदं हि परिवर्तितम्
स्थण्डिले कठिने सर्वं गात्रैर् विमृदितं तृणम् ॥

2.82.13

मन्ये साभरणा सुप्ता सीतास्मिञ् शयने तदा
तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः ॥

2.82.14

उत्तरीयम् इहासक्तं सुव्यक्तं सीतया तदा
तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेयतन्तवः ॥

2.82.15

मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी
सुकुमारी सती दुःखं न विजानाति मैथिली ॥

2.82.16

सार्वभौमकुले जातः सर्वलोकसुखावहः
सर्वलोकप्रियस् त्यक्त्वा राज्यं प्रियम् अनुत्तमम् ॥

2.82.17

कथम् इन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः
सुखभागी च दुःखार्हः शयितो भुवि राघवः ॥

2.82.18

सिद्धार्था खलु वैदेही पतिं यानुगता वनम्
वयं संशयिताः सर्वे हीनास् तेन महात्मना ॥

2.82.19

अकर्णधारा पृथिवी शून्येव प्रतिभाति मा
गते दशरथे स्वर्गे रामे चारण्यम् आश्रिते ॥

2.82.20

न च प्रार्थयते कश्चिन् मनसापि वसुंधराम्
वने ऽपि वसतस् तस्य बाहुवीर्याभिरक्षिताम् ॥

2.82.21

शून्यसंवरणारक्षाम् अयन्त्रितहयद्विपाम्
अपावृतपुरद्वारां राजधानीम् अरक्षिताम् ॥

2.82.22

अप्रहृष्टबलां न्यूनां विषमस्थाम् अनावृताम्
शत्रवो नाभिमन्यन्ते भक्षान् विषकृतान् इव ॥

2.82.23

अद्य प्रभृति भूमौ तु शयिष्ये ऽहं तृणेषु वा
फलमूलाशनो नित्यं जटाचीराणि धारयन् ॥

2.82.24

तस्यार्थम् उत्तरं कालं निवत्स्यामि सुखं वने
तं प्रतिश्रवम् आमुच्य नास्य मिथ्या भविष्यति ॥

2.82.25

वसन्तं भ्रातुर् अर्थाय शत्रुघ्नो मानुवत्स्यति
लक्ष्मणेन सह त्व् आर्यो अयोध्यां पालयिष्यति ॥

2.82.26

अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायां द्विजातयः
अपि मे देवताः कुर्युर् इमं सत्यं मनोरथम् ॥

2.82.27

प्रसाद्यमानः शिरसा मया स्वयं बहुप्रकारं यदि न प्रपत्स्यते
ततो ऽनुवत्स्यामि चिराय राघवं वने वसन् नार्हति माम् उपेक्षितुम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc